________________
आमुखम् विस्तरेण स्वरूपं तु पुरतो वक्ष्यते । ३२ अक्षराणामेकोऽनुष्टप् श्लोक इति गणनया १४२५० श्लोकपरिमिताया अभयदेवसूरिविरचितवृत्तेः अतिविस्तृतत्वात् चतुर्षु विभागेषु प्रकाशयिष्यते । प्रथमे विभागे १-२-३ अध्ययनानि, द्वितीये विभागे ४-५-६ अध्ययनानि, तृतीये विभागे ७-८-९ अध्ययनानि, चतुर्थे विभागे दशममध्ययनं विविधानि परिशिष्टानि च प्रकाशयिष्यन्ते।
अस्मिन् विभागे वाचकसुमतिकल्लोल-हर्षनन्दनगणिभ्यां संमील्य विक्रमसंवत् १७०५ वर्षे विरचितं प्रथमविभागपरिमितं स्थानाङ्गटीकागतगाथाविवरणं योजितं परिशिष्टत्रयं च । प्रथमे परिशिष्टे प्रथमे विभागे साक्षितया उद्भूतानां पाठानां विवरणादि तत्र सूचिताः कथाश्च, द्वितीये परिशिष्टे साक्षितयोद्धृतानां पाठानां पृष्ठक्रमेण सूचिः, तृतीये परिशिष्टे सम्पादनोपयुक्तग्रन्थसूचिः।
अस्माकं संशोधन-सम्पादनपद्धतिः प्राक्तनेषु अस्मत्संशोधितेषु ग्रन्थेषु बहुशः सूचिता, तत एवावधारणीया ।
धन्यवादः- अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायकाः- अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च स्व० आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागाः । तैरेव च संशोधन-सम्पादनक्षेत्रेऽहं योजितः। अतः कृतज्ञभावेन विशेषेण तेषां चरणयोर्वन्दनं विदधामि ।।
अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्री सागरानन्दसूरिभिः महान् ग्रन्थराशिः महता महता परिश्रमेण जैनसंघस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसंघः तैरुपकृतः। अतस्तेषामपि चरणयोः वन्दनं विदधामि ।
परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्रे पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते ।
लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति ।
ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् साहायकमनुष्ठितवन्तः ।।
एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रिया एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org