________________
४४
आमुखम् पदार्था यस्मिंस्तत् स्थानम्, अथवा 'स्थान'शब्देनेह एकादिकः संख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारवदिति ।” इति स्थानशब्दस्य व्याख्या स्थानाङ्गटीकायां [पृ०५] विहिता आचार्यश्री अभयदेवसूरिभिः ।
विभागा:- स्थानाङ्गम् एक एव श्रुतस्कन्धः । स्थानाङ्गमेकादिदशपर्यन्तानां पदार्थानामभिधायकम्, अतस्तत्प्रतिपादकानि तत्र दश अध्ययनानि । अध्ययनानां नामानिएकस्थानकम् १, द्विस्थानकम् २, त्रिस्थानकम् ३ यावद् दशस्थानकम् १० । द्विस्थानके त्रिस्थानके चतुःस्थानके च प्रत्येकं चत्वार उद्देशकाः । पञ्चस्थानके त्रय उद्देशकाः । एवं च स्थानाङ्गे एकविंशतिरुद्देशनकालाः समुद्देशनकालाश्च इति समवायाङ्गे नन्दिसूत्रे चाभिहितम् ।
स्थानाङ्गसूत्रस्य संशोधने ये प्राचीनाः प्राचीनतरा: प्राचीनतमा वा हस्तलिखिता आदर्शा उपयुक्ता अस्माभिस्तेषां स्वरूपं विक्रमसंवत् २०४१ [ईसवीय १९८५] मध्ये श्री महावीरजैनविद्यालयेन प्रकाशिते ग्रन्थे वर्णितमेव प्रस्तावनादिषु । तदनन्तरं भाण्डारकर-प्राच्यविद्यामन्दिर-पुणे (Bhandarkar Oriental Research Institute, Pune) इत्यतः एकः प्राचीनः तालपत्रोपरिलिखित आदर्शोऽपि सम्प्राप्तः । अस्य भां० इति संकेतः । भां० मध्ये प्रारम्भिकाणि अन्तिमानि च बहूनि पत्राणि न सन्ति, केषाञ्चिच्च पत्राणां त्रुटिताः खण्डिताश्चांशाः प्राप्यन्ते । अत्र आ०म० श्री अभयदेवसूरिभिः स्वीकृता अनेके पाठाः सन्ति, बहवो विशिष्टाः पाठभेदा अप्युपलभ्यन्ते । एतेषां पाठभेदानां निर्देशः पादटिप्पनेषु अस्माभिः कृतोऽस्ति । भां० मध्ये त-द-तेप्रभृतिश्रुत्यपेक्षया यश्रुतिः स्वरश्रुतिर्वा बाहुल्येन उपलभ्यते । अनुभवानुसारेण मूलपाठयोजने, भां० अनुसारेण च क्वचित् क्वचित् मूलसूत्रपाठेऽपि अत्र परिवर्तनं कृतमस्माभिः । त-द-तेप्रभृतिश्रुतिस्तु प्राचीना इति तत्र प्रायः परिवर्तनं न कृतम् । अयं पूर्वतनात् संस्करणादधिको विशेषः अस्मिन् संस्करणे ।
स्थानाङ्गसूत्रे विक्रमसंवत् ११२० वर्षे आचार्यश्री अभयदेवसूरिविरचिता वृत्तिरुपलभ्यते। इयं प्राचीनतमा वृत्तिः । ततः परं विक्रमसंवत् १६५७ वर्षे नगर्षिगणिविरचिता वृत्तिरप्यस्ति । अभयदेवसूरयः स्थानाङ्गादीनां नवानामङ्गसूत्राणां वृत्तिं चक्रुरिति नवाङ्गीटीकाकाररूपेण तेषां महती प्रसिद्धिः । स्थानाङ्गवृत्तेः संशोधने प्राचीनाः प्राचीनतमाश्च तालपत्रोपरिलिखिताः 'जे१, खं०, पा०, जे२' इति चत्वार आदर्शाः उपयुक्ता अस्माभिः । प्राचीनेषु संस्करणेषु ये अशुद्धाः पाठाः सन्ति तत्स्थाने अस्मदुपयुक्त जे१-खं०-पा०-जे२ आदर्शानुसारेण परःसहस्राः शुद्धपाठा अस्माभिरुपलब्धाः । तेषामादर्शानां स्वरूपं पृ०१ मध्ये पादटिप्पने संक्षेपेण निर्दिष्टमस्माभिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org