________________
प्रथमं परिशिष्टम् - टिप्पनानि ।
[स्थानाङ्गसूत्रटीकायां प्रथमे विभागे आ०म० श्री अभयदेवसूरिभिः गद्यरूपाः पद्यरूपा [गाथारूपाः] वा बहवः पाठा ग्रन्थान्तरेभ्य उद्धृताः, विविधानां कथादीनामपि च उल्लेखस्तत्र तत्र विहितः । तेषु प्रायः सर्वा अपि गाथा गाथाविवरणे विवृताः । अवशिष्टानां पाठानां विवरणं कथादिकं चात्रास्मिन् परिशिष्टे यथायोगमुपन्यस्यते ]
१
[पृ०१०] “उद्देसे निद्देसे य निग्गमे खित्त काल पुरिसे य । कारण पच्चय लक्खण नए समोयारणाऽणुम ॥१४०॥ किं कइविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवागरिस फासण निरुत्ती ॥ १४१ ॥ ।” व्याख्या - उद्देशो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशनमुद्देशः सामान्याभिधानम् अध्ययनमिति, निर्देशनं निर्देश: विशेषाभिधानं सामायिकमिति, तथा निर्गमनं निर्गमः, कुतोऽस्य निर्गमनमिति वाच्यम्, क्षेत्रं वक्तव्यं कस्मिन् क्षेत्रे ?, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति ?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टम् ? को वा गणधराणां श्रवण इति, तथा लक्षणं वक्तव्यं श्रद्धानादि, तथा नया नैगमादयः, तथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च ' मूढणइयं सुयं कालियं तु' [ आव० नि० ७६२] इत्यादि, अनुमतम् इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति - 'तवसंजमो अणुमओ' [आव० नि० ७८९] इत्यादि, किं सामायिकम् ? ' जीवो गुणपडिवण्णो' [ आव० नि० ७९२] इत्यादि वक्ष्यति, कतिविधं सामायिकम् ? 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च ' [ आव० नि० ७९६] इत्यादि प्रतिपादयिष्यते, कस्य सामायिकमिति, वक्ष्यति - 'जस्स सामाणिओ अप्पा' [ आव० नि० ७९७] इत्यादि, क्व सामायिकम्, क्षेत्रादाविति, वक्ष्यति - 'खेत्त दिसि काल गति भविय' [आव० नि० ८०४] इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति - 'सव्वगतं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे' [ आव० नि० ८३०] इत्यादि, कथमवाप्यते ?, वक्ष्यति- ‘माणुस्सखित्तजाइ’ [आव० नि० ८३१] इत्यादि, कियच्चिरं भवति कालमिति, वक्ष्यति - ‘सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइंठिती' [ आव० नि० ८४९] इत्यादि, कति इति कियन्तः प्रतिपद्यन्ते पूर्वप्रतिपन्ना वेति वक्तव्यम्, वक्ष्यति च - 'सम्मत्तदेसविरया पलियस्स असंखभागमित्ता उ' [ आव० नि० ८५६] इत्यादि, सान्तरम् इति सह अन्तरेण वर्त्तत इति सान्तरम्, किं सान्तरं निरन्तरं वा ?, यदि सान्तरं किमन्तरं भवति ?, वक्ष्यति - 'कालमणतं च सुते अद्धापरियट्टगो य देसूणो' [आव० नि० ८५३] इत्यादि, अविरहितम् इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति- 'सुतसम्मअगारीणं आवलियासंखभाग' [आव० नि० ८५४] इत्यादि, तथा भवा इति कियतो भवानुत्कृष्टतः खल्ववाप्यते 'सम्मत्तदेसविरता पलियस्स असंखभागमित्ता उ । अट्ठ भवा उ चरित्ते' [ आव० नि० ८५६ ] इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org