________________
२७४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
पृथिव्या देशतश्चलनमुक्तम्, अधुना समस्तायास्तदाह- तिहीत्यादि स्पष्टम्, किन्तु केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अत: परिपूर्णेत्यर्थ: परिपूर्णप्राया वेति, पृथिवी भू:, अहे त्ति अधो धनवात: तथाविधपरिणामो वातविशेषो गुप्येत् व्याकुलो भवेत्, क्षुभ्ये दित्यर्थः, ततः स गुप्तः सन् घनोदधिं 5 तथाविधपरिणामजलसमूहलक्षणमेजयेत् कम्पयेत्, तए णं ति ततोऽनन्तरं स घनोदधिरेजित: कम्पित: सन् केवलकल्पां पृथिवीं चलयेत्, सा च चलेदिति, देवो वा ऋद्धिं परिवारादिरूपाम्, द्युतिं शरीरादे:, यश: पराक्रमकृतां ख्यातिम्, बलं शारीरम्, वीर्यं जीवप्रभवम्, पुरुषकारं साभिमानं व्यवसायम्, निष्पन्नफलं तमेव
पराक्रममिति, बल-वीर्याधुपदर्शनं हि पृथिव्यादिचलनं विना न भवतीति तदर्शयंस्तां 10 चलयेदिति । देवाश्च वैमानिका असुरा: भवनपतयस्तेषां भवप्रत्ययं वैरं भवति,
अभिधीयते च भगवत्याम्- किंपत्तियण्णं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसि णं देवाणं भवपच्चइए वेराणुबंधे [भगवती० ३।२।१३] त्ति, ततश्च सङ्ग्राम: स्यात्, तत्र वर्तमाने पृथिवी चलेत्, तत्र तेषां महाव्यायामत
उत्पातनिपातसम्भवादिति । इच्चेएहीत्यादि निगमनमिति । 15 [सू० २०१] तिविधा देवकिब्बिसिया पन्नत्ता, तंजहा-तिपलिओवमट्टितीता, तिसागरोवमट्ठितीता, तेरससागरोवमद्वितीया ।
कहि णं भंते ! तिपलितोवमट्टितीता देवकिब्बिसिया परिवसंति ?, उप्पिं जोतिसिताणं हव्विं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमट्टितीता
देवकिब्बिसिता परिवसंति १। 20 कहि णं भंते ! तिसागरोवमट्टितीता देवकिब्बिसिता परिवसंति ?, उप्पिं
सोहम्मीसाणाणं कप्पाणं हव्विं सणंकुमार-माहिंदेसु कप्पेसु एत्थ णं तिसागरोवमट्टितीया देवकिब्बिसिया परिवसंति २॥ __ कहि णं भंते ! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उप्पिं बंभलोगस्स कप्पस्स हव्विं लंतगे कप्पे एत्थ णं तेरससागरोवमद्वितीया 25 देवकिब्बिसिता परिवसंति ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org