________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
"
परिकर्म्मणि वस्तुविनाशे च तत्र परिकर्म्म द्रव्यस्य गुणविशेषकरणम्, तस्मिन् सति, तद्यथा- घृताद्युपयोगेन पुरुषस्य वर्णादिकरणम्, एवं शुक-सारिकादीनां शिक्षागुणविशेषकरणम्, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति तथा वस्तुविनाशे च पुरुषादीनां 5 खड्गादिभिर्विनाश एवोपक्रमः, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति, मिश्र द्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति । तथा क्षेत्रस्य शालिक्षेत्रादेः परिकर्म्मविनाशो वा क्षेत्रोपक्रमः । तथा कालस्य चन्द्रोपरागादिलक्षणस्योपक्रमः उपायेन परिज्ञानं कालोपक्रमः । तथा भावस्य प्रशस्ता प्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, चाप्रशस्तो डोड्डिनी गणिका-sमात्यदृष्टान्तादवसे यः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति, तथा च धार्मिकस्य संयतस्य यश्चारित्राद्यर्थं द्रव्य-क्षेत्र-काल- भावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोपक्रम:, तथा अधार्मिकस्य असंयतस्यासंयमार्थं यः सोऽधार्मिक एव, तथा धार्मिकाधार्मिकस्य देशविरतस्य यः स धार्मिक धार्मिक इति ।
अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह, तत्रात्मनोऽनुकू लोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो वैहानसादिना विनाश: परिकर्म्म वा आत्मार्थं वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति । तथा परस्य परार्थं वोपक्रमः परोपक्रम इति । तदुभयस्य आत्म-परलक्षणस्य तदुभयार्थं वोपक्रमस्तदुभयोपक्रम इति । एवमिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्यादयो वाच्याः, व्यावृतस्य भावः कर्म्म वा वैयावृत्यं 20 भक्तादिभिरुपष्टम्भ:, तत्रात्मवैयावृत्यं गच्छ निर्गतस्यैव, परवैयावृत्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्यं गच्छ्वासिन इति । अनुग्रहो ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचनादिप्रवृत्तस्य तदुभयानुग्रहः शास्त्रव्याख्यान-शिष्यसङ्ग्रहादिप्रवृत्तस्येति । अनुशिष्टि: अनुशासनम्, तत्र आत्मनो
२६२
10 स
15
-
यथा
१. क्रम इति एवम पा० जे२ ॥ २. न्तावसेयः पामू० जे२ ॥ ३. एवं च खं० पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org