SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ [सू० १८३] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । २४१ देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने, तस्स णं एवं भवति-एस णं माणुस्सए भवे णाणी ति वा तवस्सी ति वा अतिदुक्करदुक्करकारगे, तं गच्छामि णं ते भगवंते वंदामि णमंसामि जाव पज्जुवासामि २, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवतिअत्थि णं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि 5 णं तेसिमंतियं पाउब्भवामि, पासंतु ता मे इमं एतारूवं दिव्वं देविढेि दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागतं ३, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हव्वमागच्छित्तते, संचातेति हव्वमागच्छित्तते ४॥ [टी०] अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा 10 अनेकेषुत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्ययाद् देवलोकानेकत्वोपदर्शनार्थं वा, अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, इच्छेद् अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तम्, हव्वं शीघ्रम्, संचाएइ त्ति शक्नोति, दिवि देवलोके भवा दिव्यास्तेषु, कामौ च शब्द-रूपलक्षणौ भोगाश्च गन्ध-रस-स्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामा: मनोज्ञास्ते च ते भुज्यन्त इति भोगा: शब्दादयस्ते च 15 कामभोगास्तेषु मूर्च्छित इव मूर्छितो मूढः, तत्स्वरूपस्याऽनित्यत्वादेर्विबोधाक्षमत्वात्, गृद्धः तदाकाङ्क्षावान्, अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभि: सन्दर्भित इत्यर्थः, अध्युपपन्न: आधिक्येनाऽऽसक्तोऽत्यन्ततन्मना इत्यर्थः, नो आद्रियते न तेष्वादरवान् भवति, नो परिजानाति एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थं बध्नाति एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं 20 प्रकरोति एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तु स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा मर्यादया विशिष्टः प्रकल्प: आचार आसेवेत्यर्थस्तं प्रकरोति कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणम् १ । तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितादिविशेषणोऽतस्तस्य मानुष्यकं 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy