SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवज्जेज्जा, तंजहाअमायिस्स णं अस्सिं लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाई पसत्था भवति २ २३२ तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवज्जेज्जा, जहा - 5 णाणताते, दंसणट्ठताते, चरित्तट्ठताते ३ | 25 [टी] उक्त द्वितीय उद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके विचित्रा जीवधर्म्माः प्ररूपिताः, इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयम् तिहिं ठाणेहीत्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इह तु कषायवतां 10 तामाहेत्येवंसम्बन्धस्यास्य व्याख्या - मायी मायावान् मायां मायाविषयं गोपनीयं प्रच्छन्नमकार्यं कृत्वा नो आलोचयेत् मायामेवेति, शेषं सुगमम्, नवरम् आलोचनं गुरुनिवेदनम्, प्रतिक्रमणं मिथ्यादुष्कृतदानम्, निन्दा आत्मसाक्षिका, गर्हा गुरुसाक्षिका, वित्रोटनं तदध्यवसायविच्छेदनम्, विशोधनम् आत्मनः चारित्रस्य वा अतीचारमलक्षालनम्, अकरणताभ्युत्थानं पुनर्नैतत् करिष्यामीत्यभ्युपगमः, अहारिहं 15 यथोचितं पायच्छित्तं ति पापच्छेदकं प्रायश्चित्तविशोधकं वा तपः कर्म्म निर्विकृतिकादि प्रतिपद्येत, तद्यथा- अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १, तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २, करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति ३। कीर्त्तिः एकदिग्गामिनी प्रसिद्धिः, सर्वदिग्गामिनी सैव वर्णो यशः पर्यायत्वादस्य, 20 अथवा दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः [ ], तच्च वर्ण इति, तयोः प्रतिषेधोऽकीर्त्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदं च सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षम्, मायं कट्टु त्ति मायां कृत्वा मायां पुरस्कृत्य, माययेत्यर्थः, परिहास्यति हीना भविष्यति, पूजा पुष्पादिभिः, सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदं तु प्राप्तप्रसिद्धिपुरुषापेक्षम्, शेषं सुगमम् । उक्तविपर्ययमाह-तिहीत्यादि सूत्रत्रयं स्फुटम्, किन्तु मायी मायं कटु आलोएज्ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy