SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ पुनरन्यथा तामाह-तिविहेत्यादि, संवृता सङ्कटा घटिकालयवत्, विवृता विपरीता, संवृतविवृता तूभयरूपेति, एतद्विभागोऽयम् एगिंदिय-नेरइया संवुडजोणी हवंति देवा य । विगलिंदियाण वियडा संवुडवियडा य गन्भम्मि ॥ [जीवस० ४५, बृहत्सं० ३५८] त्ति । 5 कुम्मुन्नयेत्यादि कण्ठ्यम्, नवरं कूर्मः कच्छपः, तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्यां सा शङ्खावा, वंश्या वंशजाल्या: पत्रकमिव या सा वंशीपत्रिका। गन्भं वक्कमंति त्ति गर्भे उत्पद्यन्ते, बलदेव-वासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति । बहवे इत्यादि, योनित्वाज्जीवा: पुद्गलाश्च तद्ग्रहणप्रायोग्याः, किम् ? व्युत्क्रामन्ति उत्पद्यन्ते, व्यवक्रामन्ति विनश्यन्ति, एतदेव व्याख्याति10 विउक्कमंति त्ति, कोऽर्थः ? च्यवन्ते, वक्कमंति त्ति किमुक्तं भवति ? उत्पद्यन्ते इति। पिहज्जणस्स त्ति पृथग्जनस्य सामान्यजनस्योत्पत्तिकारणं भवतीति । [सू० १४९] तिविहा तणवणस्सतिकाइया पन्नत्ता, तंजहा-संखेजजीविता असंखेज्जजीविता अणंतजीविता । टी०] अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो 15 बादरवनस्पतिकायिकान् प्ररूपयन्नाह-तिविहेत्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूल-कन्द-स्कन्ध-त्वक्-छाखा-प्रवालाः, अनन्तजीविका: पनकादय इति, इह प्रज्ञापनासूत्राण्यपीत्थम् जे के वि नालियाबद्धा, पुप्फा संखेज्जजीविया । 20 णीहूआ अणंतजीवा, जे यावन्ने तहाविहा ।। पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंद-कोंकणाणं, सयवत्त-सहस्सवत्ताणं ॥ बिंटे बाहिरपत्ता य कन्निया चेव एगजीवस्स । अन्भिंतरगा पत्ता पत्तेयं केसरं मिंजा ॥ [प्रज्ञा० ११८७,९०,९१] इति । 25 तथा- लिंबंब जंबु कोसंब साल अंकुल्ल पीलु सल्लू या । सल्लइ मोयइ मालूय बउल पलासे करंजे य ॥ [प्रज्ञा० १३] इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy