SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [सू० १४६ ] तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येकं त्र्यं त्र्यं कल्पनीयम्, तथा उत्सर्पिण्या: दुःषमदुः : षमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति । [सू० १४६] तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेज्जा, तंजहा - आहारिज्जमाणे वा पोग्गले चलेज्जा, विकुव्वमाणे वा पोग्गले चलेज्जा, ठाणातो वा ठाणं संकामिज्जमाणे पोग्गले चलेज्जा १ | तिविधे उवधी पन्नत्ते, तंजहा- कम्मोवही, सरीरोवही, बाहिरभंडमत्तोवही । एवं असुरकुमाराणं भाणियव्वं, एवं एगिंदिय-नेरइयवज्जं जाव वेमाणियाणं २। २०३ अहवा तिविधे उवधी पन्नत्ते, तंजहा - सचित्ते, अचित्ते, मीसए । एवं रइयाणं निरंतरं जाव वेमाणियाणं ३ | तिविधे परिग्गहे पन्नत्ते, तंजहा- कम्मपरिग्गहे, सरीरपरिग्गहे, बाहिरभंडमत्तपरिग्गहे । एवं असुरकुमाराणं, एवं एगिंदियनेरतियवजं जाव वेमाणियाणं ४ | अहवा तिविहे परिग्गहे पन्नत्ते, तंजहा- सचित्ते, अचित्ते, मीसए । एवं रतियाणं निरंतरं जाव वेमाणियाणं ५ । " [टी०] काललक्षणा अचेतनद्रव्यधर्म्मा अनन्तरमुक्ताः तत्साधर्म्यात् पुद्गलधर्म्मान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह - तिहीत्यादि, छिन्नः खड्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह- अच्छिन्नपुद्गल इति, आहारेज्जमाणे त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणात्, एवं विक्रियमाणो वैक्रियकरणवशवर्त्तितयेति, स्थानात् स्थानान्तरं सङ्क्रम्यमाणो हस्तादिनेति । उपधीयते पोष्यते जीवोऽनेनेत्युपधिः, कर्मैवोपधिः कर्मोपधिः, एवं शरीरोपधिः, बाह्यः शरीरबहिर्वर्त्ती, भाण्डानि च भाजनानि मृन्मयानि, मात्राणि च मात्रायुक्तानि कांस्यादिभाजनानि, भोजनोपकरणमित्यर्थः, भाण्डमात्राणि, तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं वस्त्राभरणादि, तदेव मात्रा परिच्छदः, सैवोपधिरिति, १. कांश्या पा० जे२ ।। २. परिच्छेदः जे१ ॥ Jain Education International For Private & Personal Use Only 5 10 15 20 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy