SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थो देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् संहरेत् नयेत् कान्तारम् अरण्यम्, निर्गतः कान्तारान्निष्कान्तारस्तं निष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन, रोगः कालसहः कुष्ठादिः, आतङ्कः कृच्छ्रजीवितकारी 5 सद्योघातीत्यर्थः शूलादिः, अनयोर्द्वन्द्वैकत्वे रोगातङ्कं तेनेति, धर्मस्थापनेन तु भवति कृतोपकारः, यदाह– जो जेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा । सो तं तओ चुयं तम्मि चेव काउं भवे निरिणो ॥ [ निशीथभा० ५५९३] त्ति । शेषं सुगमत्वान्न स्पृष्टमिति । [सू० १४४] तिहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवतेजा, तंजहा अणिदाणयाए, दिट्ठिसंपन्नयाए, जोगवाहियाए । [टी०] धर्म्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह - तिहीत्यादि कण्ठ्यम्, नवरम् अनादिकम् 15 आदिरहितमनवदग्रम् अनन्तं दीर्घाध्वं दीर्घमार्गं चत्वारोऽन्ता विभागा नरकगत्यादयो यस्य तच्चतुरन्तम्, दीर्घत्वं प्राकृतत्वात्, संसार एव कान्तारम् अरण्यं संसारकान्तारं तद् व्यतिव्रजेत् व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि— अनाद्यनन्तमरण्यमतिमहत्त्वाच्चतुरन्तं दिग्भेदादिति । निदानं भोगर्द्धिप्रार्थनास्वभावमार्त्तध्यानम्, तद्विवर्जितता अनिदानता, तया, दृष्टिसम्पन्नता 20 सम्यग्दृष्टिता, तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा, तयेति । [सू० १४५ ] तिविहा ओसप्पिणी पन्नत्ता, तंजहा - उक्कस्सा, मज्झिमा, जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ जाव दूसमदूसमा ७। तिविहा उस्सप्पिणी पन्नत्ता, तंजहा - उक्कस्सा, मज्झिमा, जहन्ना ८, एवं छप्पि समाओ भाणियव्वाओ जाव सुसमसुसमा १४ | 10 २०२ - 25 [टी०] भवव्यतिव्रजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाहतिविहेत्यादिसूत्राणि चतुर्द्दश कण्ठ्यानि, नवरम् अवसर्पिणी प्रथमेऽरके उत्कृष्टा, चतुर्षु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy