________________
१७८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० १२९] तिविहा नेरइया पन्नत्ता, तंजहा-कतिसंचिता, अकतिसंचिता, अवत्तव्वगसंचिता । एवमेगिंदियवजा जाव वेमाणिया ।
[टी०] अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाहतिविहेत्यादि कण्ठ्यम्, नवरं कतीत्यनेन सङ्ख्यावाचिना द्यादयः सङ्ख्या5 वन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति कति सङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिता: कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति न सङ्ख्याता इत्यकति असङ्ख्या अनन्ता वा, तत्र ये अकति अकति
असङ्ख्याताः असङ्ख्याता एकै कसमये उत्पन्नाः सन्तस्तथैव सञ्चितास्ते 10 अकतिसञ्चिताः, तथा य: परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं
सोऽवक्तव्यकः, स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः, समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्तं च
एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । 15 उववज्जंतेवइया उव्वटुंता वि एमेव ॥ [बृहत्सं० १५६] त्ति ।
एतद्देवपरिमाणम्, एतदेव नारकाणामपि, यत उक्तम्- संखा पुण सुरवरतुल्ल [बृहत्सं० २८२] त्ति, कतिसञ्चितादिकमर्थमसुरादीनां दण्डकोक्तानामतिदिशन्नाह- एवमित्यादि, एवमिति नारकवच्छेषाश्चतुर्विंशतिदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता 20 वा इति, आह च
अणुसमयमसंखेज्जा संखेज्जाऊय तिरिय मणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य ॥ [बृहत्सं० ३३५] एगो असंखभागो वट्टइ उव्वदृणोववायम्मि ।
एगनिगोए निच्चं एवं सेसेसु वि स एव ॥ [बृहत्सं० ३३५ प्रक्षेप०] त्ति । 25 [सू० १३०] तिविहा परियारणा पन्नत्ता, तंजहा-एगे देवे अन्ने देवे अन्नेसिं
१. संख्याता: एकैक: पा० । संख्याता एकैकः जे२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org