SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १७० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह- असुरेत्यादि, असुरेन्द्रौ चमर-बली, तद्वर्जितानां तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां च 5 भवनवासिनां देवानामुत्कर्षतो द्वे पल्योपमे किञ्चिदने स्थिति: प्रज्ञप्ता, उक्तं च चमर १ बलि २ सार १ महियं २ सेसाण सुराण आउयं वोच्छं । दाहिणदिवड्डपलियं दो देसूणुत्तरिल्लाणं ॥ [बृहत्सं० ५] ति । उत्कर्षत एवैतत्, जघन्यतस्तु दश वर्षसहस्राणीति, आह च दस भवण-वणयराणं वाससहस्सा ठिई जहन्नेणं । 10 पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा ॥ [बृहत्सं० ४] इति । शेषं सुगमम्, नवरं सौधर्मादिष्वियं स्थितिःदो १ साहि २ सत्त ३ साहिय ४ दस ५ चोद्दस ६ सत्तरेव ७ अयराइं। सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ॥ [बृहत्सं० १२] इति । इयमुत्कृष्टा, जघन्या तु पलियं १ अहियं २ दो सार ३ साहिया ४ सत्त ५ दस य ६ चोइस य ७ । सत्तरस सहस्सारे ८ तदुवरि एक्केकमारोवे ॥ [बृहत्सं० १४] इति । देवलोकप्रस्तावात् स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह- दोसु इत्यादि, कल्पयोः देवलोकयोः स्त्रियः कल्पस्त्रियो देव्यः, परतो न सन्ति, शेष कण्ठ्यमिति १, नवरं तेउलेस त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च 20 सौधर्मेशानयोरेव, न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च किण्हा नीला काऊ तेऊलेसा य भवण-वंतरिया । जोइस सोहम्मीसाणे तेऊलेसा मुणेयव्वा ॥ [बृहत्सं० १९३] इति २ । १. तद्वर्जितानामन्येषां (तद्वर्जितानां तदन्येषां खं०) भवनवासिनां देवानामित्यसुरेन्द्रवर्जनाद् नागकुमारादीन्द्राणामित्यर्थः, उत्कर्षतो द्वे पल्योपमे - पा० खं० । तद्वर्जितानां तत्सामानिकवर्जितानां च, सत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां भवनवासिनां देवानामिति असुरेन्द्रवर्जनाद् नागकुमारादीन्द्राणामित्यर्थः, उत्कर्षतो वे पल्योपमे जे२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy