SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [सू० ११४-११५] द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । [सू० ११४] के अयं लोगे ? जीव ब्वेव अजीव च्चेव । के अणंता लोए? जीव च्चेव अजीव च्चेव । के सासया लोगे ? जीव च्चेव अजीव च्चेव । [टी०] इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह के अयमित्यादि। क इति प्रश्नार्थः, अयमिति देशतः प्रत्यक्ष आसन्नश्च 5 यत्र भगवता मरणादि प्रशस्ता-ऽप्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं चपंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं [ध्यानश० ५३] ति । लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह-के अणंतेत्यादि, 10 के अनन्ता: लोके ? इति प्रश्नः, अत्रोत्तरं जीवा अजीवाश्चेति । एत एव च शाश्वता द्रव्यार्थतयेति । [सू० ११५] दुविधा बोधी पन्नत्ता, तंजहा-णाणबोधी चेव दंसणबोधी चेव। दुविहा बुद्धा पन्नत्ता, तंजहा-णाणबुद्धा चेव दंसणबुद्धा चेव । एवं मोहे, मूढा। 15 [टी०] ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधि-मोहलक्षणधर्मयोगाद् बुद्धा मूढाश्च भवन्तीति दर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहेत्यादि, बोधनं बोधिः जिनधर्मलाभः, ज्ञानबोधिः ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञान-दर्शनयोरन्योन्याविनाभूतत्वादिति । एवं मोहे 20 मूढ त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्ताः तथा मोहो मूढाश्च वाच्या इति, तथाहि- 'दुविहे मोहे पन्नत्ते तं०-णाणमोहे चेव, दंसणमोहे चेव', ज्ञानं मोहयति आच्छादयतीति १. अत एव जे१ ख० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy