SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुक्खरवरदीवड्ढे णं दीवे दो भरहाइं, दो एरवताई, जाव दो मंदरा, दो मंदरचूलियाओ । [सू० १०४] पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उड्डमुच्चत्तेणं पन्नत्ता। सव्वेसि पि णं दीवसमुद्दाणं वेदियाओ दो गाउयाई उड्डेमुच्चत्तेणं 5 पंन्नत्ताओ। . [टी०] क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां धायइसंडे इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह, कण्ठ्यश्चायम्, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीप-लवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान् जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरत-हैमवतादिवर्षाणि च व्यवस्थाप्य 10 पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेरुं च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां वृक्षविशेषाणां खण्डो वनं समूह इत्यर्थो धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकीखण्डद्वीपस्तस्य पुरत्थिमं ति पौरस्त्यं पूर्वमित्यर्थो यदर्द्ध विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्धम्, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो 15 दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उक्तं च पंचसयजोयणुच्चा सहस्समेगं च होंति वित्थिन्ना । कालायणलवणजले पुट्ठा ते दाहिणुत्तरओ ॥ दो उसुयारनगवरा धायइसंडस्स मज्झयारठिया । 20 तेहिं दुहा णिहिस्सइ पुव्वद्धं पच्छिमद्धं च ॥ [बृहत्क्षेत्र० ३।४-५] इति । तत्र णमिति वाक्यालङ्कारे, मन्दरस्य मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्येतव्ये व्याख्येये च, अत एवाहएवं जहा जंबूदीवे तहेत्यादि, नवरं वर्षधरादिस्वरूपमायामादिसमता चैवं भावनीया १. पण्णत्ता क० ॥ २. कालोययलवण इति मुद्रितो बृहत्क्षेत्र० पाठः ॥ ३. ८० तमसूत्रादारभ्य ९४ तमसूत्रे १७ पर्यन्तं गणने ६९ सूत्राणि भवन्ति ।। ४. जंबुद्दीवे खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy