SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रवृत्तिनिमित्ताश्रयणात्तु चन्द्रादयो ज्योतिष्का इति, विमानेषु ऊर्ध्वलोकवर्त्तिषु भवाः वैमानिकाः सौधर्मा दिवासिनः, तेषाम् ३ गर्भे गर्भाशये व्युत्क्रान्ति: उत्पत्तिर्गर्भव्युत्क्रान्ति:, मनोरपत्यानि मनुष्याः, तेषाम्, तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चः, तेषां सम्बन्धिनी योनि: उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयो 5 भवन्तीति विशेष्यन्ते- पञ्चेन्द्रियाश्च ते तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकाः, तेषाम् ४ । तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५ । वृद्धिः शरीरोपचयः ६, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्येत्यादिवत् ७, वैक्रियलब्धिमतां विकुर्वणा ८, गतिपर्याय: चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्ग्रामयति ° स वा गतिपर्यायः, उक्तं च भगवत्याम्____ जीवे णं भंते ! गब्भगए समाणे णेरइएसु उववज्जेज्जा ?, गोतमा !, अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणटेणं?, गोतमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए विउव्विअलद्धीए पराणीयं आगतं सोच्चा णिसम्म पएसे निच्छुब्भइ, २ वेउव्वियसमुग्घाएणं समोभन्नइ, २ चाउरंगिणिं सेन्नं(णं) विउव्वइ, २ चाउरंगिणीए सेणाए 15 पराणीएणं सद्धिं संगाम संगामेइ [भगवती०१।७।१९] [इ]त्यादि ९, समुद्घातो मारणान्तिकादिः १०, कालसंयोग: कालकृतावस्था ११, आयाति: गर्भान्निर्गमः १२, मरणं प्राणत्यागः १३, दोण्हं छविपव्व त्ति द्वयानाम् उभयेषां छवि त्ति मतुब्लोपाच्छविमन्ति त्वग्वन्ति पव्व त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि, क्वचित् छवियत्त त्ति पाठः, तत्र छवियोगाच्छविः, स एव छविकः, स चासौ अत्त 20 त्ति आत्मा च शरीरं छविकात्मेति, छविपत्त त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४ । दो सुक्केत्यादि, द्वये शुक्रं रेतः शोणितम् आर्त्तवं ताभ्यां सम्भवो येषां ते तथा १५ । कायट्ठिति त्ति काये निकाये १. विशिष्यन्ते खं० पा० जे२ ॥ २. “से णं जीवे अत्थकामए रजकामए भोगकामए कामकामए, अत्थकंखिए रजकंखिए भोगकंखिए कामकंखिए, अत्थपिवासिए रजपिवासिए भोगपिवासिए, कामपिवासिए, तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्टोवउत्ते तदाप्पितकरणे तब्भावणाभाविते एतंसि णं अंतरंसि कालं करेज नेरतिएसु उववज्जइ, से तेणट्टेणं गोयमा ! जाव अत्थेगइए उववज्जेज्जा, अत्थेगइए नो उववज्जेजा।” इति सम्पूर्ण सूत्रं भगवत्याम् । अस्य टीका प्रथमे परिशिष्टे द्रष्टव्या ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy