________________
[सू० ७३] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
१०५ ___ दोहिं ठाणेहिं सद्दुप्पाए सिया, तंजहा-साहन्नंताण चेव पुगलाणं सद्दुप्पाए सिया, भिजंताण चेव पोग्गलाणं सहप्पाए सिया ।
[टी०] उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसम्बन्धः- अनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गल-जीवधर्म-क्षेत्रेन्द्रलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्याऽस्येदमादिसूत्राष्टकम्- 5 दुविहेत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- इहानन्तरोद्देशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावनिरूप्यते, इत्येवम्सम्बन्धस्याऽस्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो वर्णव्यक्तिमान, नोअक्षरसम्बद्धस्त्वितर इति २, आतोद्यं पटहादि, तस्य यः शब्दः 10 स तथा, नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्री-वर्धादिबद्धमातोद्यम् ४, तच्च किञ्चिद् घनं यथा पिञ्जनिकादि, किञ्चिच्छुषिरं यथा वीणा-पटहादिकम्, तज्जनितः शब्दस्ततो घन: शुषिरश्चेति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितम्, तदपि घनं भाणकवत् शुषिरं काहलादिवत्, तज्जः शब्दो विततो घन: शुषिरश्चेति, चतु:स्थानके पुनरिदमेवं भणिष्यतेततं वीणादिकं ज्ञेयम्, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ [ ] इति । विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति ६, भूषणं नुपूरादि, नोभूषणं भूषणादन्यत् ७, तालो हस्ततालः, लत्तिय त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा लत्तियासद्दे त्ति पार्ष्णप्रहारशब्दः ८ ।
20 उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाह- दोहीत्यादि, द्वाभ्यां स्थानाभ्यां कारणाभ्यां शब्दोत्पादः स्याद् भवेत् ८, संहन्यमानानां च सङ्घातमापद्यमानानां सतां कार्यभूतः शब्दोत्पादः स्यात्, पञ्चम्यर्थे वा षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुद्गलानां बादरपरिणामानां यथा घण्टा-लालयोः, एवं भिद्यमानानां च वियुज्यमानानां यथा वंशदलानामिति।
25 १. संबद्धस्या जे१,२ । संबंद्धस्या पा० ।। २. संबद्धस्या जे१,२ ॥ ३. तुलना- “ततं वीणादिकं वाद्यम् आनद्धं मुरजादिकम् । वंशादिकं तु शुषिरं कांस्यतालादिकं घनम् ॥१८५॥” इति अमरकोषे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org