SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ६६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पाठान्तरे प्राकृतत्वाद् द्विर्भाव इति, चेवेत्ययं समुदायमात्र एव प्रतीयते ‘अपिचे' त्यादिवदिति १। जीवकिरियेत्यादि, सम्यक्त्वं तत्त्वश्रद्धानम्, तदपि जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम् अतत्त्वश्रद्धानम्, तदपि 5 जीवव्यापार एवेति । अथवा सम्यग्दर्शन-मिथ्यात्वयोः सतोर्ये भवतः ते सम्यक्त्व मिथ्यात्वक्रिये इति २।। ___ अजीवकिरियेत्यादि, तत्र ईरियावहिय त्ति ईरणमीर्या गमनम्, तद्विशिष्टः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदम्, प्रवृत्तिंनिमित्ततस्तु यत् केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया अजीवस्य पुद्गलराशेर्भवनं 10 सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षयाऽजीवक्रियेयमुक्ता । कर्मविशेषो वैर्यापथिकी क्रियोच्यते, यतोऽभिहितम् - इरियावहिया किरिया दुविहा बज्झमाणा वेइज्जमाणा य, जाव पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठा वेड्या णिज्जिण्णा सेयकाले अकम्मं चावि भवती [आव० हारि० ] ति । तथा सम्परायाः कषायाः, तेषु भवा सांपरायिकी, सा ह्यजीवस्य पुद्गलराशेः कर्मतापरिणतिरूपा 15 जीवव्यापारस्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति ३। पुनरन्यथा द्वे- दो किरियेत्यादि । काइया चेव त्ति कायेन निर्वृत्ता कायिकी कायव्यापारः, तथा अहिगरणिया चेव त्ति अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम् अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भव 20 आधिकरणिकीति ४। __कायिकी द्विधा- अणुवरयकायकिरिया चेव त्ति अनुपरतस्य अविरतस्र सावद्यात् मिथ्यादृष्टे : सम्यग्दृष्टेर्वा कायक्रि या उत्क्षेपादिलक्षणा कर्म बन्धनिबन्धनमनुपरतकायक्रिया, तथा दुप्पउत्तकायकिरिया चेव त्ति दुष्प्रयुक्त दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टा-ऽनिष्टेन्द्रियविषयप्राप्तौ मनाक् सङ्ग 25 निर्वेदगमनेन तथा अनिन्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यवस्थित १. परिशिष्टे टिप्पनेषु द्रष्टव्यम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy