________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे वग्गणेत्येतदन्तेन ग्रन्थेन तामेवाह । तत्र नेरइयाणं ति निर्गतम् अविद्यमानमयम् इष्टफलं कर्म येभ्यस्ते निरयाः, तेषु भवा नैरयिकाः क्लिष्टसत्त्वविशेषाः, ते च पृथिवीप्रस्तट-नरकावासस्थिति-भव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति। तथा असुराश्च ते नवयौवनतया 5 कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, चउवीसदंडउ त्ति
चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स चायम्नेरइया १ असुरादी १० पुढवाई ५ बेंदियादयो चेव ४ ।
नर १ वंतर १ जोतिसिया १ वेमाणी १ दंडओ एवं ॥ [ ] 10 भवनपतयो दशधा
असुरा नाग सुवण्णा विज्जू अग्गी य दीव उदही य । दिसि पवण थणियनामा दसहा एए भवणवासि ॥ [प्रज्ञा० १३७] त्ति ।
एतदनुसारेण सूत्राणि वाच्यानि । यावच्चतुर्विंशतितमम् एगा वेमाणियाणं वग्गण त्ति, एष सामान्यदण्डकः १। ननु नारकसत्तैव दुरुपपादा, आस्तां तद्धर्मभूताया वर्गणाया 15 एकत्वमनेकत्वं वेति, तथाहि- न सन्ति नारकाः, तत्साधकप्रमाणाभावात्,
व्योमकुसुमवत्, अत्रोच्यते, प्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात्, तथाहि- विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलम्, कर्मफलत्वात्, पुण्यकर्मफलवत्, न च तिर्यङ्-नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्,
विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, आह च20 पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेस व्व ।
संति धुवं तेऽभिमया नेरइया अह मई होज्जा । अच्चत्थदुखिया जे तिरिय-नरा नारग त्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं ॥ [विशेषाव० १८९९-१९००] ति ।
अवसेस व्व त्ति यथा नारकेभ्योऽन्ये तिर्यङ्-नरा इत्यर्थः । अथ सुराणामपि 25 विवादास्पदीभूतत्वात् ‘विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्' इत्यसिद्धो दृष्टान्तः,
अत्रोच्यते, देव इति सार्थकं पदम्, व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org