________________
३६४
सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् पृ० २७ पं० २ नातिवहति। "नातीव वोढुं शक्नोति" शी० ॥ पृ० २७ पं० १० अत्र छन्दोऽपेक्षया मासूरियं इति चू० पाठः समीचीनः ॥ पृ० २८ पं० १ सहसू इति खं २ प्रभृतिपाठोऽत्र छन्दोपेक्षया समीचीनः।। पृ० २८ पं० २ ‘मोहणिएण कडेण' इति खं १ प्रतिस्थः पाठोऽत्र छन्दोऽपेक्षया समीचीनः॥ पृ० ३० पं० २ छन्दोऽपेक्षया ते सिवं ॥ इति पु १ पाठः शोभनः। पृ० ३१ पं० १३ अप्पोदए इति शुद्धम्।
पृ. ३२ पं० १४ 'मच्छा विट्ठा व केयणे' इति खं १ पु २ पाठोऽत्र छन्दोऽपेक्षया समीचीनतरः, चूर्णौ खं २ पु १ ला०मध्ये तु पविट्ठा इति पाठः, शी०मध्येऽपि [पृ० ८२] “यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टाः" इति व्याख्यातम् ।
पृ० ३६ पं. १ माहणाऽदुव इति पाठोऽत्र छन्दोऽपेक्षया समीचीनः । पृ० ३८ पं० १४ गिलाणाभिहडं ति य इति खं २ पाठोऽत्र समीचीनः॥
पृ० ४० पं० ९ अभुंजिया णमी वेदेही। तुलना-"श्रीशुक उवाच-निमिरिक्ष्वाकुतनयो वसिष्ठमवृतत्विजम् । आरभ्य सत्रं सोऽप्याह शक्रेण प्राग् वृतोऽस्मि भोः ॥ १॥ तं निर्वयागमिष्यामि तावन्मा प्रतिपालय। तूष्णीमासीद् गृहपतिः सोऽपीन्द्रस्याकरोन्मखम् ॥ २॥ निमिश्चलमिदं विद्वान् सत्रमारभतात्मवान् । ऋत्विरिभरपरस्तावन्नागमद् यावता गुरुः ॥ ३ ॥ शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुरागतः। अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ ४॥ निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने। तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥५॥ इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः। मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥६॥ गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः। समाप्ते सत्रयोगेऽथ देवानूचुः समागतान् ॥ ७ ॥ राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि। तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥ यस्य योग न वाञ्छन्ति वियोगभयकातराः। भजन्ति चरणाम्भोज मुनयो हरिमेधसः ॥९॥ देहं नावरुरुत्सेऽहं दुःखशोकभयावहम्। सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ १०॥ देवा ऊचुः-विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषण-निमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥११॥ अराजकभयं नृणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ १२॥ जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः। मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥"-भागवत. ९।१३।१-१३ ॥ “पुनापरं यदा होमि मिथिलायं पुरुत्तमे। निमि नाम महाराजा पण्डितो कुसलत्थिको ॥१॥ तदाहं मापयित्वान चतुस्सालं चतुम्मुखं। तत्थ दानं पवत्तेसिं मिगपक्खिनरादिनं ॥२॥"सुत्तपिटके चरियापिटकपालि, निमिराजचरिया, पृ० ३९० ॥
पृ० ४० पं० ११, २९ आसिले देविले। अत्र महाभारते निर्दिष्टः असितो देवल: ऋषिर्विवक्षित इति सम्भाव्यते। "आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविलासिल इति वक्तव्यम्" [पृ० ९६ पं० ३] इति चूर्णिकारवचनमपि साभिप्रायम् , महाभारते “देवलं चासितं मुनिम् [सभापर्व २०४९।१०], देवलस्त्वसितोऽब्रवीत् [भीष्मपर्व ६।६४।६], अत्रैवोदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादं देवलस्यासितस्य च ॥" [शान्तिपर्व १२।२६७।१] इति पाठदर्शनात् 'देवलः' इति गोत्रोक्तिः 'असितः' इति तु ऋषेर्नाम सम्भाव्यते। खं १ मध्ये असिले इति पाठ इत्यपि 'येयम् ॥
“मासिलो नाम महर्षिः, तथा देविलो" इति शीलाचार्यविरचितवृत्त्यनुसारेण त्वत्र मासिले इति देविले इति च ऋषिद्वयं विवक्षितम् , वायुपुराणेऽपि ऋषिलक्षणे "काश्यपश्चैव वत्सारो विभ्रमो रेभ्य एव च। असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥ २६ ॥” इति असित-देवलयोर्द्वयोहल्लेखो दृश्यते ॥
पृ. ४० पं० ११-१२ दीवायण महारिसी । पारासरे। तुलना--"तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति--कण्हे य करकंड़े य अंबडे य परासरे। कण्हे दीवायणे चेव देवगुत्ते य नारए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org