________________
२३२]
અધ્યાત્મકપમ प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद् , भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ३ ॥ सिद्धद्यतकलाबलाद्धनिजनं जित्वाथ हेम्नां भरैचाणक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । देवादाढयजनेन तेन स पुनर्जीयेत मन्त्री क्वचित् , भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥४॥ रत्नान्याढयसुतैर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमः ।। लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत्तत्क्वचित् , भ्रष्टो भर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ५ ॥ स्वप्ने कार्पटिकेन रात्रिधिगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्णयषशादल्पं फलं प्राप्य च । स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचित, भ्रष्टो मत्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥६॥ राधाया पदनादधः क्रमवशाच्चक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यही, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥७॥ दृष्ट्वा कोऽपि हि कच्छपो हृदमुखे सेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । सेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ८॥ शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्धरवीचिभिश्चि सुचिरात्संयोजितं तद् द्वयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं क्वापि चेत, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ९ ॥ चूर्णीकृत्य पराक्रमान्मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितः कुर्यात्स चेत्पूर्ववत,
भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ १०॥ ભેજન–બ્રહ્મરાજાને પુત્ર બ્રહ્મદર બે વરસની વયનો હતો ત્યારે તેને પિતા મરણ પામ્યા. રાયકાર્ય દીર્ઘ નામના મંત્રીને સોંપવામાં આવ્યું. આ મંત્રીની સાથે બ્રહ્મરાજાની રાણું ચલણી પ્રેમમાં પડી અને વિષય સેવવા લાગી. બ્રહ્મદત્તને આ વાતની ખબર પડતાં તેણે આ દુષ્ટ સયાગ તોડી નખાવવા આડકતરી રીતે પ્રયાસ કર્યો, પણ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org