________________
५२०
ज्ञाताधर्मकथाङ्गसूत्रे 'वण्णओ ' आदि ग्राह्याः पाठः
प्रकृत्यैव स्वभावेनैव भद्रकः अनुकूलवृत्तिः, प्रकृत्यैवोपशान्तः उपशान्ताकारः, मृदु च तन्मादेवं च मृदुदेवम् अत्यन्तमार्दवम् इत्यर्थः, आलीनः आश्रितो गुरुम् अनुशासनेऽपि च भद्रक एव यः स तथा । " इति ज्ञाताधर्मकथा टीकायाम् पृ० ७७ ।
पृ० ७७ पं० १५–१० ७८ पं० ४. अड्डे दित्ते जान विउलभत्तपाणे !... चारुवेसा जावपडिलवा | “अड्डे दित्ते, इह यावत्करणादिदं द्रष्टव्यम् - विच्छिण्णविउ लभवणस यणासणजा - वाहणाने बहुदासदासी गोम हिसगवेलगप्पभूर बहुवण बहुजायरूवरयए आभोगपभोगसंपत्ते विच्छड्डियविउलभत्तपाणे त्ति, व्याख्या त्वस्य मेघकुमारराजवर्णकवत् भद्रावर्णकस्य तु धारिणीवर्णक्रवत् । " इति ज्ञाताधर्मकथाटीकायाम् पृ० ८० । दृश्यतामस्मिन्नेव परिशिष्टे पृ० ३ पं० १ इत्यस्य टिप्पणम्, तथा पृ० ८ पं १-२ इत्यस्य टिप्पणम् ।
पृ० ८४ पं० ४. मित्त-नाति ० । अत्र 'मित्त-नाति-नियग-संबंधि-परिजणं' इति सम्पूर्णः पाठः । पृ० ९१ पं० ११. काले कालोभासे जाव वेयणं । " काले कालोभासे इत्यादि काल: कृष्णवर्णः काल एवावभासते द्रष्टॄणां कालो वाऽवभासो दीप्तिर्यस्य स कालावभासः, इह यावत्करणादिदं दृश्यम् —गंभीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, से णं तत्थ नियं भीए, निश्वं तत्थे, निचं तसिए, निचं परमसुहसंबद्धं नरगति, तत्र गम्भीरो महान्, रोमहर्षो भसम्भूतो रोमाञ्च यस्य यतो वा सकाशात् स तथा, किमित्येवमित्याह - भीमो भीष्मः, अत एवोत्त्राकारित्वादुत्त्रासकः, एतदपि कुत इत्याह- परमकृष्णो वर्णेनेति, परां प्रकृष्टाम् अशुभ सम्बद्धां पापकर्मणोपनीताम् ।" इति ज्ञाताधर्मकथाटीकायाम् पृ० ८९ ।
पृ० ११३ पं० ८. इरियासमिते भासासमिते जाव विहरति । " ईरियासमिए इत्यादि, इह यावत्करणादिदं दृश्यम् - एसणा समिए आयाणभंडमत्तनिक्खेवणासमिए, आदानेन ग्रहणेन सह भाण्डमात्राया उपकरणलक्षणपरिच्छदस्य या निक्षेपणा मोचनं तस्यां समितः सम्यक् प्रवृत्तिमान्, उच्चारपा प्रवणखेल सिंबाग जल पारिट्ठावगियासमिए, उच्चारः पुरीषम्, प्रश्रवणं मूत्रम्, खेलो निष्ठीवनम् सिङ्घानो नासामलः, जलः शरीरमलः, मणसमिए वयसमिए कायसमिए, चित्तादीनां कुशलानां प्रवर्तक इत्यर्थः, मणगुत्ते, बइगुत्ते कायगुत्ते, चित्तादीनामशुभानां निषेधकः, अत एवाह - गुत्ते योग/पेक्षया, गुत्तिदिए इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात्, गुत्तबंभचारी वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे भ्रमाणे अमाए अलोभे ।
2
"
"
कथमित्याह — संते सौम्यमूर्तित्वात्, पसंते कषायोदयस्य विफलीकरणात् उपसंते कषायोदयाभावात्, परिनिव्वुडे स्वास्थ्यातिरेकात्, अणासवे हिंसादिनिवृत्तेः, अममे ममेत्युलेखस्याभिष्वङ्गतोऽप्यसद्भावात्, अचिणे निर्द्रव्यत्वात्, छिन्नग्गंथे मिथ्यात्वादिभावग्रन्थच्छेदात्, निरुवलेत्रे तथाविधबन्धहेत्वभावेन तथाविधकर्मानुपादानात्, एतदेवोपमानैरुच्यते - कंसपाई व मुकतोए बन्धहेत्वभावेन तोयाकारस्य स्नेहस्याभावात् संखो इव निरंजणे, रञ्जनस्य रागस्य कर्तुमशक्यत्वात् जीवो विव अप्पडिहयगई सर्वत्रौचित्येनास्खलितविहारित्वात्, गगणमिव निरालंबणे देश-ग्राम- कुलादीनामनालम्बकत्वात्, वायुरिव अपडिबद्धे क्षेत्रादौ प्रतिबन्धाभावेन - चित्येन सततविहारित्वात्, सारयसलिलं व सुद्ध हियए शाक्यलक्षणगडुलखवर्जनात् पुक्खरपत्तं पिव निरुवलेवे पद्मपत्रमिव भोगाभिलाषलेवाभावात्, कुम्मो इव गुत्तिदिए, कूर्मः कच्छपः, खग्गविसाणं व एगजाए, खड्डिः आरण्यः पशुविशेषः, तस्य विषाणं शृङ्गम्, तदेकं भवति, तद्वदेको जातो योऽसङ्गतः सहायत्यागेन स तथा, विहग इव विप्पमुक्के आलयाप्रतिबन्धेन, भारं पक्खी व अप्पमत्ते, भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवा अनन्यफलभक्षिणो जीवद्वयरूपा भवन्ति, तेच सर्वदा चकितचित्ता भवन्तीति, कुंजरो इव सोंडीरे, कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः,
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org