________________
शातधर्मकथाङ्गसूत्रलेखयितृप्रशस्तिः
गार्हस्थ्येऽपि स्थितो यः श्रमगगण इवात्यन्तनिस्सङ्गवृत्तिः, व्यावृत्तव्यापिमोहप्रमुखसममहान्तर्भवारि
प्रवृत्तिः । सच्चित्तत्यागकारी परिमितविकृति-द्रव्यसंख्याधिकारी, रागद्वेषापसारी परिहतविषयः पापपङ्काप
हारी॥११॥ आवश्यकं द्विः सततं सुजेद् यत् पूजां त्रिसन्ध्यं च जिनेश्वरस्य । सदागमार्थ च गुरोः समीपे शृणोत्युभाकर्णि गुणानुरागी ॥१२॥ विशेषपर्वण्यनिशं विधत्ते चतुर्दशीमुख्य उपोषणाद्यम् । तपोविशेष विधिपौषधं च त्यक्त्वा गृहारम्भभरं समं यः ॥ १३ ॥ साधर्मिकाणां विविधान् महोत्सवान् श्रीसङ्घवात्सल्यमुखांस्तनोति यः। श्रीजैनसच्छासनभासनप्रथाप्रभाकरांशुप्रतिमान्महीयसः॥ १४ ॥ गार्हस्थ्यभावे स्थितवानपीति श्रीधर्म्यकर्माणि निरन्तरं सः।। तनोति यद्वद् भवमध्यसंस्थो योगी निजं यौगिककर्मजातम् ॥ १५॥ इतश्व-श्रीमत्तागणनभोङ्गगभानुकल्पश्रीसोमसुन्दरगुरुप्रवरोपदेशम्।
पीयूषयूषकमनीयसुधामयूखप्रख्यं निनाय विषयं निजकर्णयोः सः ॥१६॥ तथाहि-न ते नरा दुर्गतिमाप्नुवन्ति न मूकतां नैव जडस्वभावम् ।
न चान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥१७॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम्। ते सर्व वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ १८॥ पठति पाठयते पठतामसौ वसन-भोजन-पुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदे भवेन्नरः ॥१९॥ तेषां निशम्येति वचो गुरूणां सुधासमानं भवतारहेतु । समुद्यतान्तःकरणो बभूव सैकादशाङ्गीपरिलेखनादौ ॥ २० ॥ एकादशाङ्गानि ततः शुभाय प्रालीलिखद् स्तम्भपुरे प्रधाने । वर्षेऽश्विनीपुत्रमहर्षिविद्या १४७२ संख्ये स्खलक्ष्म्या श्रुतभक्तितोऽयम् ॥ २१ ॥ आकाशातपवारणं परिलसत्तारावलीमौक्तिकं मेरूद्दण्डसुदण्डकाण्डममृतात् पूर्णकुम्भोज्वलम् । श्रीसङ्घोपरि धारयेद् विधिरसौ यावच्चिरं नन्दतात् तावत् पुस्तक एष कोविदकुलैवविच्यमानः
सदा ॥२२॥ इति श्रीस्तम्मतीर्थनगरवास्तव्यश्रीजैनधर्ममार्गावरणप्रवीणतत्त्वातत्त्वविवेकाकलनाऽरीण सा. पर्वतलेखितश्रीएकादशाङ्गीप्रशस्तिः समाप्ता॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org