SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ३७२ शाताधर्मकथाङ्गसूत्रलेखयितृप्रशस्तिः। . . . . . . . . . ...............प्रददौ स तु लेखयित्वाऽमुम् ॥ २० ॥ निधि-वेद-तिथि १५४९ प्रमिते विक्रमसंवत्सरे व्यतिक्रान्ते । नवकूलवतीपुर्यो ग्रन्थमिमं वीरमो व्यलिखत् ॥२१॥ इति श्री ज्ञाताधर्मकथाप्रशस्तिः ॥ सं० १५४९ वर्षे चैत्रसुदि १० दिने गुरौ॥ श्रीपृथ्वीराजकुमारराज्ये।" हे ४ मध्ये ईदृशी प्रशस्तिवर्तते"वर्षद्वादशकं विधाय विविधं तीनं तपो दुस्तपं दुष्टादृष्ट चतुष्टयं प्रविततं निर्मूलमुन्मूल्य च । विश्वालोकककेवलं च विमलं सम्प्राप्य सन्दर्शितो धर्मो येन चतुर्विधः स भगवान् वीरोऽस्तु वः श्रेयसे ॥१॥ श्रीमतीर्थाधिनाथैरसुरसुरनरैः सङ्कलायां सभायां पूर्व व्याख्यायि याऽर्थात्तदनुगगधरैः सूत्रतः सन्दिदेशे। निश्शेषाङ्गिवजानामुपकृतिकृतये न्यकृतान्यप्रवादा जीयादेकादशाङ्गी शिवपदसुखदा सा सदा । विश्वविश्वे ॥२॥ मोढज्ञात्युदयक्षमाधरशिखाभूषाविधिद्योमणिर्जज्ञे ठकुररत्नसिंह इति ह श्राद्धः सदा प्रसिद्धः पुरा। पुत्रस्तस्य बभूव वन्धुरगुणः श्रीजैनधर्माध्वगः साल्दाको दयिता च तस्य समभूदु बूटीति नाम्ना श्रुता ॥ ३ ॥ मेघाह्वः प्रथमः समस्तजनतास्तुत्यो द्वितीयस्तथा वाघाख्यो व्यवहारिवर्गविदितो रामस्तृतीयः पुनः । तुर्यः पर्वतनामकश्च विविधश्रीधर्मबद्धादराश्चत्वारस्तनयांस्तयोः समभवन्नेते क्रमाद्विश्रुताः॥४॥ पूर्वामुचूः सोमसमानशीला सतीषु रेखा ललकूद्धितीया। रूदिस्तथा देमतिका च जाये रन्नूरमीषां दयिता अभूवन् ॥ ५॥ मेघाकस्याऽभूत् सुतो नर्मदाख्यः ख्यातः मायां न्यचदक्षेषु मुख्यः। रामाकस्याथाऽभवद् वत्सराजः स्वच्छस्वान्तः सजनानां प्रशस्यः ॥६॥ रामाह्नः पर्वतश्च प्रथितगुणगणौ तेषु वासं सृजन्तौ प्रौढश्रीस्तम्भतीर्थाढयवरनगरे प्रोल्लसकीर्तिभाजौ । इभ्यश्रेणीषु मुख्यौ जिनगुरुचरणाम्भोजभृङ्गायमानौ मानातीतोत्सवौधैः प्रवचनमभितो भासयन्ताव भूताम् ॥ ७॥ अष्टादशादिवर्षत्रितयमनु महाभीषणे सम्प्रवृत्ते दुर्भिक्षे लोकलक्षक्षयकृति नितरां कल्पकालोपमाने । सत्रागारत्रयं यो प्रतिदिनमधमोत्कृष्टमध्यमप्रभेदान्मोदात् प्रावर्तयेतां निजविभवभरैः सद्दयावासना भ्याम्॥८॥ श्रीमच्छशत्रुञ्जयाद्रौ प्रवरतरगिरौ रैवते चार्बुदे च श्रीजीरापल्लिपार्श्वप्रभृतिषु निखिलेष्वन्यतीर्थेषु भावात् । वापं वापं प्रकामं प्रचुरतरधनं स्वीयमात्मीय आत्मा चक्रे याभ्यां पवित्रः प्रविततसुकृतैश्चा परैरप्युदारैः ॥९॥ अथ च-तत्राऽप्यभूद पर्वतनामधेयः समस्तलोकोत्तमभागधेयः । विशेषसूक्ष्माईतधर्मकर्मासक्तः समासन्नसमस्तशर्मा ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy