SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ७९] णवमं अज्झयणं 'मायंदी' १९३ माणी २ संचालिजमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं अतियट्टिजमाणी २ कोट्टिमकरतलाहते विव तिंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य, उप्पयमाणी विव धरणियलाओ सिद्धविज्जा विजाहरकन्नगो, ओवयमाणी वेषाद्यन्यथात्वेन यश्छद्मनः प्रयोगः परप्रतारणव्यापारः, तेन युक्ता या सा तथा, योगपरिवाजिका समाधिप्रधानप्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधर्म्यात् तद्गतजननिःश्वाससाधाद्वा निःश्वसन्तीव, कीदृशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा, परिणतवयाः विगतयौवना, अम्मय त्ति अम्बा पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति, ततश्चात्यय निश्वसितीत्येवं सा विशेषितेति, तथा तद्गतजनविषादयोगात् शोचन्तीव, कीदृशी केत्याह -तपश्चरणं ब्रह्मचर्यादि, तत्फलमपि उपचारात् तपश्चरणं स्वर्गसम्भवभोगजातं तस्य क्षीणः परिभोगो यस्याः सा तथा, च्यवनकाले देववरवधूः। अथवा उप्पयमाणी विवेत्यादौ विवशब्दस्यान्यत्र योगादुत्पतन्ती नौः, केव ? सिद्धविद्या विद्याधरकन्यकेवेत्यादि व्याख्येयमिति । तथा संचूर्णितानि काष्ठानि कूवरं च तुण्डं यस्याः सा तथा, तथा भग्ना मेढी सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो (मोढितो-अटीसं०) भगः सहसा अकस्मात् सहस्त्रसंख्यजनाश्रयभूतो वा मालो मालकः उपरितनभागो जनाधारो यस्याः सा तथा, ततः पदद्वयस्य कर्मधारयः। तथा शूलाचितेव शूलाप्रोतेव गिरिशृङ्गारोहणेन निरालम्बनतां गतत्वाच्छूलाचिता, बंको वक्रः परिमर्शो जलधिजलस्पर्शो यस्याः सा तथा, ततः कर्मधारयः, अथवा शूलायितः आचरितशूलारूपस्त्रुटितपरिकरत्वात् , सूलाईत ति पाठे तु शूलायमानो वंकश्च वक्र: पा(प-अटीहे०)रिमासो त्ति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा, तथा फलकान्तरेषु संघटितफलकविवरेषु तटतटायमानाः तथाविधध्वनि विदधानाः स्फुटन्तो विघटमानाः सन्धयो मीलनानि यस्यां सा तथा, विगलन्त्यो लोहकीलिका यस्यां सा तथा, ततः कर्मधारयः, तथा सर्वाङ्गैः सर्वावयवैः विजृम्भिता विवृततां गता या सा तथा, परिशटिता रजवः फलकसंघातनदवरिकाः यस्याः सा तथा, अत एव विसरंति विशीर्यमाणानि सर्वाणि गात्राणि यस्याः सा तथा, ततः कर्मधारयः। मामकमल्लकभूता अपक्वशरावकल्पा, जलसम्पर्के क्षणेन विलयनात् । तथा अकृतपुण्यजनमनोरथ इव चिन्त्यमाना कथमियमेतामापदं निस्तरिष्यतीत्येवं विकल्प्यमाना, गुर्वी गुरुका, आपदः सकाशाद् दुःसमुद्धरणीयत्वात् , निष्पुण्यजनेनापि स्वो मनोरथः 'कथमयं पूरयिष्यते' इत्येवं चिन्त्यमानो दर्निवहत्वात गुरुरेव भवतीति तेनोपमेति, तथा हाहाकृतेन हाहाकारण कर्णधाराणां निर्यामकाणां नाविकानां कैवर्तानां वाणिजकजनानां कर्मकराणां च प्रतीतानां विलपितं विलापो यस्यां सा तथा, तथा नानाविधै रत्नैः पण्यैश्च भाण्डैः संपूर्णा या सा तथा, रोयमाणेहिं ति सशब्दमणि विमुञ्चत्सु, कंदमाणेहिं ति शोकाद् महाध्वनि मुञ्चत्सु, सोयमाणेहिं शोचत्सु मनसा खिद्यमानेषु, तिप्पमाणेहिं ति भयात् प्रस्वेदलालादि तेपत्सु क्षरत्सु, विलपत्सु आतै जल्पत्सु एकं महत् अंतोजलगयं ति जलान्तर्गत गिरिशिखरमासाद्य संभग्नः कूपकः कृपकस्तम्भो यत्र सितपटो निबध्यते तोरणानि च यस्यां सा तथा, तथा मोटिता ध्वजदण्डा यस्यां सा तथा, तथा वलकानां दीर्घदाररूपाणां शतानि खण्डितानि यस्यां सा तथा, अथवा वलयशतैः वलयाकारखण्डशतैः खण्डिता या सा तथा, करकरस्स त्ति करकरेति शब्दं विदधाना तत्रैव जलधौ विद्ववं विलयमुपगतेति"-अटी०॥ १. गातो। भोव खं। गा तोव हे ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy