________________
(६७)
अंत्ये वेद्यं द्वयोरेकं नरायुद्वयं त्रसम् । सुभगादेयपर्याप्तपंचाक्षं तीर्थकता ॥ ७६ ॥ वादरोच्चयशांसीति त्रयोदश क्षणे क्षयम् । यस्य प्रकृतयो यांति तमयोगं स्तुवे त्रिधा ॥ ७७॥ १३ प्रकृतयः। किं प्राक् विच्छिद्यते बंधः किं पाकः किमुभौ समम् । किं स्वपाकेन वंधोऽन्यपाकेनोभयथापि किम् ॥ ७८ ॥ सान्तरोऽनंतरः किं किं बंधो द्वेधा प्रवर्त्तते । इत्येवं नवधा प्रश्नक्रमेणास्त्येतदुत्तरम् ॥ ७९ ॥ देवायुर्विक्रियद्वन्द्वं देवाहारद्वयेऽयशः । इत्यष्टानां पुरा पाकः पश्चाद्धंधो विनश्यति ॥ ८०॥
अत्रप्रथमतः बंधोच्छेदगुणस्थानांकसंख्या, पश्चात्तूदयविच्छेदगुणस्थानांकसंख्या द्रष्टव्या
देवायुषः-वंध, गु. ७, गु. ४, उदय । वैक्रियिकद्वयस्य८, ४ । देवद्वयस्य-८, ४ । आहारकद्वयस्य-८, ६ । अयश-कीर्तेः-६, ४।। हास्यरतिजुगुप्साभीमिथ्यापुंस्थावरातपाः। साधारणमपर्याप्तं सूक्ष्मं जातिचतुष्टयम् ।। ८१॥ कोपादयोऽविसंज्वाललोभामानुपूर्विका । इत्येकत्रिंशतो वंधपाकच्छेदौ समं मतौ ।। ८२ ॥
एकस्मिन् गुणस्थाने बंधपाकद्वयोर्दर्शनाद्वंधपाको समं द्रष्टव्यौ । हास्यस्य ८, ८। अरतेः ८, ८ । जुगुप्सायाः ८, १ प्रथमत उदयविच्छेदः पश्चाद्वंधविच्छेदो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org