________________
(६६) प्रभ्रश्योपशमश्रेणेर्यो मिथ्यात्वं विगाहते । तस्य प्रकृतयः साष्टाश्चत्वारिंशच्छतप्रमाः ॥ ६६ ॥ त्रयेऽन्यजन्मनि क्षीणे श्वभ्रतिर्यक्सुरायुषाम् । सत्क्षयो नृभवे प्राप्ते गुणस्थानेषु कथ्यते ॥६७॥ स्त्यानगृद्धित्रयं तिर्यग्द्वितयं नारकद्वयम् । सूक्ष्म साधारणोद्योतावाद्यजातिचतुष्टयम् ॥ ६८॥ आतपः स्थावरा ज्ञेया षोडश प्रथमे क्षणे । अनिवृत्तेर्द्वितीयेशेऽष्टकषाया मध्यमास्ततः ॥६९॥ पंढवेदो वधूवेदो हास्यषटुं क्रमात्ततः। पुंवेदोऽतस्ततः क्रोधो मानोऽतो वंचना ततः ॥७॥ अनिवृत्तौ १६।८।१।१।६।१२१।१॥ सूक्ष्मे लोभसंज्वालो द्वे निद्राप्रचले क्षणे । आये क्षीणान्तिमे ज्ञानदृग्विघ्नस्थाश्चतुर्दश ॥७१॥ १ । २ । १४ । अयोगस्य शरीराणि पंच बंधनपंचकम् । संघातपंचकं षटुं संस्थानानां सुरद्वयम् ॥ ७२ ॥ त्रीण्यंगोपांगकान्यष्टौ स्पर्शाः संहननानि षट् । अपर्याप्तं रसाः पंच द्वौ गंधौ वर्णपंचकम् ॥ ७३ ॥ अयशोगुरुलध्वादिचतुष्कं द्वे नभोगती। स्थिरद्वन्द्वं शुभद्वन्द्वं प्रत्येकं सुस्वरद्वयम् ॥७४॥ वेद्यमेकमनादेयं नीचदुर्भगनिम्मितः । उपांत्यसमये क्षीणाः द्वासप्ततिरिमाः समम् ।। ७५॥ ७२ प्रकृतयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org