SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ( ६ ) गोपुच्छिकः श्वेतवासा द्राविडो यापनीयकः । निः पिच्छश्चेति पञ्चैते जैनाभासाः प्रकीर्तिताः ॥ १० ॥ तत्र च काष्ठासंघापरनामधेये गोपुच्छके माथुरगच्छ आसीदिति सुरेन्द्रकीर्त्याचार्यनिर्मित पट्टावल्या ज्ञायते । तथाहि काष्ठासंघो भुवि ख्यातो जानन्ति नृसुरासुराः । तत्र गच्छाश्च चत्वारो राजन्ते विश्रुताः क्षितौ ॥ १ ॥ श्रीनन्दितटसंज्ञश्च माथुरो बागड़ाभिधः । लाडवागड इत्येते विख्याताः क्षितिमण्डले ॥ श्रीमदमितगतिः काष्ठासंघीय आसीदिति श्रीभूषणसूरिकृतप्रबोधचिन्तामणिग्रन्थेनापि ज्ञायते । तथाहि भानुभूवलये कम्रो काष्ठसंघाम्बरे रविः । अमितादिगतिः शुद्धः शब्दव्याकरणार्णवः ॥ न केवलमनेन काष्टा संघीयत्वं ज्ञायते किन्तु महात्मनो वैयाकरणत्वमपि - सूच्यते । अतोऽनुमीयते यद्व्याकरणविषयेऽपि तत्ख्यातिर्दिगन्तव्यापिनी बभूव । यद्यपि माथुरसंघ: काष्ठासंघस्य गच्छ एव तथापि तस्मिन् किञ्चिद्विशेषत्वमप्यस्ति । अतएवानुमीयते मन्माथुरगच्छस्यनाम माथुरसंघ इत्यभूत् । दर्शनसारे माथरसंघोत्पत्तिविषये गाथेयम्प्राप्यते । ततो दुसरती महुराएमाहुराण गुरुणाहो । णामेण रामसेणो णिप्पिच्छियं वण्णियं तेणे ॥ ४१ ॥ अनया माथुरसंघस्य काष्ठासंघात्स्वतन्त्रता निःपिच्छिकता च ज्ञायते ! यद्यपि श्रीमदतिगतेः संघः जैनाभासेषु परिगणितस्तथापि नानेनाचार्यस्य महत्त्वहानि: । पुरा कैश्चिन्नाममात्र मतभेदेनाचारभेदेन वा सिद्धान्ताभेदे सत्यपि जैनाभासतोद्घोषिताऽऽसीत् परन्तु शनैः शनैः सा प्रच्छन्नत्वमगात् । अत इदमुचितमेवोक्तम् | १ ततो द्विशतेऽतीते मथुरायाम्माथुराणां गुरुनाथः । नाम्ना रामसेनो निःपिच्छिकं वर्णितं तेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy