________________
(५८) प्रथमकषायोदयजा एता बंधादभावतस्तेषां । रभसेन पंचविंशतिरुपरिष्टात्प्रकृतयस्तस्मात् ॥ २५ ॥ द्वितीयानां कषायाणां चतुष्कमादिसंहतिः । नृद्वयौदारिकद्वन्दे मनुष्यायुर्दशावते ॥ २६ ॥ द्वितीयकषायोत्थाना एताः प्रकृतयः स्फुटम् । प्रपद्यन्ते व्यवच्छेदे परं तेषामभावतः ॥ २७ ॥ तृतीयानां कषायाणां चतुष्कं याति विच्छिदम् । देशवते तदुत्थानामभावात्परतस्ततः ॥ २८ ॥ अरत्ययशसी शोकास्थिरासाताशुभानि षट् । प्रमत्ते यांति विच्छेदं सुरायुश्चाप्रमत्तके ॥ २९ ॥ अपूर्वे प्रथमे भागे द्वे निद्राप्रचले ततः । षष्ठे प्रकृतयस्त्रिंशञ्चतस्रः सप्तमे ततः ॥ ३० ॥ तैजसं कार्मणं पंचहृषीकममरद्वयम् । स्थिरं प्रथमसंस्थानं शुभंवैक्रियिकद्वयम् ॥ ३१ ।। त्रसाद्यगुरुलध्वादिवर्णादीनां चतुष्टयम् । सुभगं सुस्वरादेये निर्माणं सन्नभोगतिः ॥ ३२ ॥ आहारकद्वयं तीर्थकृत्त्वं त्रिंशदिमास्ततः । हास्यं रतिर्जुगुप्सा भीश्चतस्रः सप्तमे ततः ॥ ३३ ॥ पुंवेदोन्त्यकषायाणां चतुष्कं पंचपंचसु । भागेषु याति विच्छेदमनिवृत्तेः क्रमादिमाः ॥ ३४ ॥ पंच ज्ञानावृतेरुच्चं चतस्रो दर्शनावृतेः । यशः पंचान्तरायस्य छिन्नाः सूक्ष्मे च षोडश ॥ ३५ ॥
१ पंचहृषीकं-पंचेन्द्रियं । २ त्रसवादरपर्याप्तप्रत्येकानि । ३ अगुरुलघूपधातपरघातोच्छ्रासानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org