________________
(४५)
अन्नादिसंज्ञया सर्वा प्रवृत्तिं कुरुते यतः । ततो न मानसाभावे प्रवृत्तिस्तस्य वाध्यते ॥ ३२२ ।। शरीरत्रयपर्याप्तिषटूयोर्योग्यपुद्गलाः । गृह्यते येन स ज्ञेयो दक्षैराहारको भवी ॥ ३२३ ॥ समुद्धातं गतो योगी मिथ्याक्सासनायताः । विग्रहर्तावनाहाराः सिद्धायोगाश्च भाषिताः ॥ ३२४।। भवेदौदारिको दंडे मिश्रो दंडकपाटयोः । कार्मणो योगिनो योगः प्रतरे लोकपूरणे ॥ ३२५ ॥ सदंडाररमंथानपूरणानि यथाक्रमम् । चतुर्भिः समयैः कृत्वा तावद्भिर्विनिवर्त्तते ॥ ३२६ ॥ षण्मासायुषि शेषे स्यादुत्पन्नं यस्य केवलम् । समुद्धातमसो याति केवली नापरः पुनः ॥ ३२७ ।। उपयोगो मतो द्वेधा बाह्याभ्यंतरभेदतः । स सामान्यविशेषाणां द्रव्याणां दर्शने क्षमः ।। ३२८ ॥ वाह्योऽत्राष्टविधं ज्ञानं विशेषाकारदर्शकम् । सामान्यदृक् चतुर्दास्ति दर्शनं ज्ञेयमान्तरम् ।। ३२९ ॥ . घातिकर्मक्षये वृत्तिस्तस्य केवलिनोः समम् । तत्क्षयोपशमेऽन्यत्रै क्रमतो वृत्तिरीरिता ॥ ३३० ॥ छद्मस्थेषपयोगोस्ति द्वेधाप्यन्तर्मुहूर्तगः । साद्यपर्यवसानोऽसौ जायते जिनयोः समम् ॥ ३३१॥
१ अररम् कपाटम् । २ सयोग्ययोगिनोः । ३ अन्यस्मिन् काले तस्याफ्योगस्य वृत्तिरनुक्रमतः कथिता न तु युगपत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org