________________
(२४)
को वेत्ति, सदसद्भावोत्पत्तिं को वेत्ति, अवाच्यभावोत्पत्ति को वत्ति' इत्युच्चारणया ( तत्संदृष्टिः ० ० ० ० ) लब्धश्चतुर्भिरतैः सह पूर्वभेदाः ६३ मिलित्वा ६७ सप्तपष्टिसंख्याका भवन्ति । सर्वसमासे ३६३ भेदाः भवन्ति । एकेन्द्रियादि जीवानां घोराज्ञानविवर्तिनाम् ।। तीव्रसन्तमसाकारं मिथ्यात्वमगृहीतकम् ॥ ३१५ ।। एकैकं न त्रयो द्वे द्वे रोचंते न परे त्रयः ।। एकस्त्रीणीति जायंते सप्ताप्यते कुदर्शनाः ।। ३१६ ।। सकलोपशमे प्राप्तिः सम्यक्त्वस्यादिमष्यते । निश्चयेनापंरा सर्वदेशोपशमने पुनः ।। ३१७ ॥ मिथ्यात्वं पृष्ठतो लाभे सम्यक्त्वस्यादिमे भवेत् । मिथ्यात्वं मिश्रक वास्य लाभेऽन्यत्रास्ति पृष्ठतः ॥३१८।। शिक्षालापोपदेशानां ग्राहको यः समानसः । सः संज्ञी कथितोऽसंज्ञी हेयादेयाविवेचकः ॥ ३१९ ॥ गृहाति शिक्षते कृत्यमकृत्यं सकलं तदा। नानाहूतः समभ्येति समनस्कोऽन्यथेतरः ॥ ३२० ।। क्षयोपशमतः संज्ञी स्वान्तावरणकर्मणः । भवत्युदयतोऽसंज्ञी विचेती भूतचेतनः ॥ ३२१ ॥
१ सम्यक्त्वस्य द्वितीया क्षयोपशमसम्यक्त्वरूपाप्राप्तिः षट् प्रकृतीनाम् उपशमे एकसम्यक्त्वप्रकृतिमिथ्यात्वस्योदये सति । २ अन्यत्र द्वितीय चलायां अस्य सम्यक्त्वस्य लाभे सति पृष्ठतः मिथ्यात्वं भवति अथवा तृतीयगुणस्थानं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org