________________
(२३५) सासनाः षोडश त्यक्त्वा मिश्रकाः पंचविंशतिम् । देवमायुषी चान्याः सप्ततिं चतुरन्विताम् ॥ ६९ ॥ सासनाः १०१ । मिश्राः ७४ । तीर्थकुन्नृसुरायुभिर्युक्तां वनंत्यसंयताः । तेजोलेश्या विमुच्यताः श्वभ्रायुर्विकलत्रयम् ॥ ७० ॥ श्वभ्रद्वयमपर्याप्तं सूक्ष्मं साधारणं पराः । हित्वा वामदृशस्तीर्थकर्तृत्वाहारकद्विके ।। ७१ ॥ असंयताः ७७ । ओधेन तेजोलेश्याः १११ । वामदृशः १०८. एकेन्द्रियमसंप्राप्तं स्थावरं पंढहुंडके । मिथ्यात्वमातपं हित्वा परा बनंति सासनाः। १०१॥७२॥
औधिकीः परिगृहंति प्रकृतीः सकलाः स्फुटम् । तेजोलेश्यास्थिताः पंच सम्यङ्गिथ्यागादयः ॥ ७३ ॥ ७४७७।६७/६३।५९ । श्वभ्रायु रकद्वंद्वसूक्ष्मसाधारणातपान् । एकेन्द्रियमपर्याप्त स्थावरं विकलत्रयम् ॥ ७४ ॥ पद्मलेश्या निरस्यैता द्वादश प्रकृतीः पराः । आत्मसात्कुर्वते सर्वाः अष्टोत्तरशतप्रमाः ॥ ७५ ॥ ओघेन पद्मलेश्याः १०८। विहायाहारकद्वन्द्वतीर्थकृत्त्वं कुदृष्टयः । सासनाः षंढमिथ्यात्वहुंडासंप्राप्तकैर्विना ॥ ७६ ॥ कुदृष्टयः १०५ । सासनाः १०१ । स्वीकुर्वन्त्यौधिकीः पंच मिश्रदृष्टिपुरोगमाः। शुक्ललेश्याः प्रवनंति स्थावरं नारकद्वयम् ॥ ७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org