________________
( २०५) । विना पंचाशतं द्वयग्रां तानि देशे त्रयोदश । षष्ठसप्तमयोर्तेयं षट्पंचाशं सहस्रकम् ॥ ७२६ ॥ १२४८।१०५६ । १०५६ । अपूर्वेऽशीतिसंयुक्तं ज्ञेयं शतचतुष्टयम् । पंचाशीतिशतान्येके स्युर्दापंचाशतं विना ॥ ७२७ ॥ अपूर्व ४८४ । सर्वाः पदबंधाख्याः प्रकृतयः ८४४८ । अनिवृत्तभंगाः कथ्यन्तेवेदसंज्वलनाभ्यासे द्वादश स्युर्द्विकोदयाः । एकोदयास्तु चत्वारः संज्वालान्यतमोदये ॥ ७२८ ॥ एकः सूक्ष्मे भवत्येवं द्वये सप्तदशोदयाः । एकोनत्रिंशदैक्ये ते द्वाभ्यामभ्यसने सति ॥ ७२९ ॥ __सवेदेऽनिवृत्तौ द्विकोदयाः १२ । अवेदे त्वेकोदयाः ४ । सूक्ष्मलोभे एकः १ । सर्वे मिलिताः १७ । द्वाभ्यामभ्यसने द्विकोदयेषु प्रकृतयः २४ । एकोदये ४ । सूक्ष्मे १ । पिंडिताः २९ । पदबंधाख्याः प्रकृतयः ।। पाकप्रकृतिसंख्यायाः पदबंधा भवंति ते । पंचाशीतिशतान्याहुस्तां त्रयोविंशति विना । ८४७७||७३०॥ ये भवंति गुणे यत्र पाकाः प्रकृतयश्च याः । योगोपयोगलेश्याभिस्ते गुण्यास्ताश्च यत्नतः ॥ ७३१ ॥ त्रयोदश द्वयोर्योगा दशान्यत्र त्रयोदश । नवैकादश ते षट्रे नव सप्त च योगिनि ॥ ७३२ ॥
१ गुणने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org