________________
(१७२) तत्रैकविंशतं द्वयक्ष निरुद्योतोदये सति । त्रसं तिर्यग्द्वयं द्वयक्षं तेजः स्थिरशुभद्वये ॥ ५१७ ।। कार्मणागुरुलध्वाट्वे स्थूलं वर्णचतुष्टयम् । अनादेयं यशः पूर्णद्वितयैकतरद्विकम् ।। ५१८ ॥ निर्माणं दुर्भगं वक्ररीतौ द्वयेकक्षणस्थितिः । एको भंगो यशः पाके द्वौ परत्रात्र भाषितौ ॥ ५१९ ॥
१ । २ । अत्रापर्याप्तोदयाभावाद्यशाकीयुदये सत्येको भंगः १ । पर्याप्तापर्याप्तोदयसद्दावादयशःकीयुदये द्वौ भंगौ २। मिलिताः ३। प्रत्येकौदारिकयुगहुंडासंप्राप्तकोपघातयुतम् । षाड्दिशतमानुपूर्वीरहितं स्वीकृतशरीरस्य ॥ ५२० ॥ अन्तर्मुहूर्त्तकालं कायग्रहणक्षणादिदमाद्यात् । भंगत्रितयोपेतं शरीरपरिपूर्णतां यावत् ।। ५२१ ॥ २६ । भंगाः ३। अष्टाविंशतमिष्टं परघातासनभोगतिसमेतम् । व्यपनीतापूर्णमिदं पूर्णागे भंगयुगयुक्तम् ॥ ५२२ ।।
२८ । यशःपाके भंगः । प्रतिपक्षप्रकृत्युदयाभावादयशःपाकेप्येको भंगः १ । मिलितौ २। पूर्णोच्वासस्य सोच्छासमेकोनत्रिंशतं स्मृतम् । . भाषापर्याप्तिपर्यन्तमिदं भंगद्वयान्वितम् ॥ ५२३ ॥ २९ । भंगौ २। इदंवचनपर्याप्तौ त्रिंशतं जीवितावधि । स्थानं भंगद्वयोपेतं सुदुःस्वरमुदाहृतम् ॥ ५२४ ॥
१ अत्रैकमात्रान्यूनता। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org