SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीअमितगतिसूरिविरचितः पंचसंग्रहः । सर्वसंग्रहनिषेधकोऽपि यः पंचसंग्रहविधानदर्शकः । तस्वमार्गविनिवेदिनी जिनः शेमुषीं मम तनोतु संस्थितिम् ॥ १ ॥ बंधकं वैध्यमानं यो बंधेशं "बंधकारणम् । भाषते बंधभेदं च तं स्तुवे भावसंग्रहम् ॥ २॥ ये षट् द्रव्याणि बुध्यते द्रव्यक्षेत्रादिभेदतः । जिनेशास्तांस्त्रिधानत्वा करिष्ये जीवरूपणम् ॥ ३ ॥ अनंतानंत संख्याना जंतवो द्रव्यतोऽखिलाः । अनंतलोकसंख्यानाः संक्षेपात्क्षेत्रतो मताः ॥ ४ ॥ अतीतकालतोऽनंतगुणिताः कालतः स्मृताः । भावतः केवलानंतभागमाना जिनेश्वरैः ॥ ५ ॥ परीतानंतयुक्तानंतानंतानंत मेकशस्त्रयाणां जघन्योत्कृष्टाजघन्योत्कृष्टभेदेन त्रैविध्यादनंतस्य नवधात्वमुन्नेयम् ॥ ६ ॥ नवधात्वेऽप्यनंतस्य प्रमाणस्य विचक्षणः । अजघन्योत्कृष्टमत्रेदमनंतानंतमीर्यते ॥ ७ ॥ १ विचारिणीं । २ जीवं । ३ कर्मप्रकृतिं । ४ गुणस्थानादिषु क क कियंत्यः प्रकृतयो बंध यांति | ५ मिथ्यात्वादिप्रत्ययाः । ६ प्रकृतिस्थित्यनुभाग प्रदेशभेदेन चतुर्द्धा । ७ न जघन्यः न उत्कृष्टः अजघन्योत्कृष्टः किन्तु मध्यमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy