SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सहसाईत्-स्तोत्र (यैत्यवंधन) १७७ नखांशवः पान्तु ||२३|| यदुवंश - समुद्रेन्दुः कर्म - कक्ष - हुताशनः अरिष्टनेमिः भगवान् वः अरिष्टनाशनः भूयात् ॥ २४ ॥ स्वोचितं कर्म कुर्वति कमठे धरणेन्द्रे च तुल्य- मनोवृत्तिः पार्श्वनाथः प्रभुः वः श्रिये अस्तु ||२५|| अद्भुतश्रिया सनाथाय, महानन्द- सरो- राजमरालाय श्रीमते वीरनाथाय अर्हते नमः ||२६|| कृतापराधे जने अपि कृपा - मन्थर- तारयोः ईषद्- बाष्पआर्द्रयोः श्रीवीरजिन- नेत्रयोः भद्रम् ||२७|| विजितान्य-तेजाः सुरासुराधीश - सेवितः श्रीमान् विमलः त्रासविरहितः त्रिभुवन- चूडामणिः भगवान् जयति ॥ २८॥ वीरः सर्वसुरासुरेन्द्र-महितः, बुधाः वीरं संश्रिताः, वीरेण स्वकर्म - निचयः अभिहतः, वीराय नित्यं नमः, वीरात् इदम् अतुलं तीर्थे प्रवृत्तम्, वीरस्य घोरं तपः वीरे श्री धृति - कीर्ति- कान्ति-निचयः, श्रीवीर ! भद्रं दिश ॥२९॥ कृत्रिमाकृत्रिमानाम् अवनितल-गतानां वरभवनगतानां दिव्यवैमानिकानाम् इह मनुजकृतानां देवराजार्चितानां जिनवर - भवनानाम् अहं भावतः नमामि ॥३०॥ सर्वेषां वेधसाम् आद्यम्, परमेष्ठिनाम् आदिमं, देवाधिदेवं सर्वज्ञं श्रीवीरं प्रणिदध्महे ||३१|| देव : अनेक - भवार्जित - ऊर्जित- महापाप - प्रदीप-अनलः, सिद्धिवधू - विशाल- हृदयालङ्कार-हारोपमः देवः अष्टादश-दोष - सिन्धुर-घटा-निर्भेदपञ्चानन, श्रीवीतरागः जिनः भव्यानां वाञ्छितफलं विदधातु ॥ ३२॥ ख्यातः अष्टापदपर्वतः, गजपदः, सम्मेतशैलाभिधः, श्रीमान् रैवतकः, प्रसिद्ध-महिमा शत्रुञ्जय:, मण्डपः, वैभारः, कनकाचलः, अर्बुदगिरिः, श्रीचित्रकूटादयः (दिकः) । तत्र श्री ऋषभादयः जिनवरा: वः मङ्गलं कुर्वन्तु ||३३|| प्र. -३-१२ Jain Education International For Private & Personal Use Only देवः www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy