________________
५५. श्रीवर्द्धमानजिन-स्तुतिः ।
'स्नातस्या-' स्तुति
(१) भूख-06* स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे, रूपालोकन-विस्मयाहृत-रस-भ्रान्त्या भ्रमच्चक्षुषा । उन्मृष्टं नयन प्रभा धवलित क्षीरोदकाशया, वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः ॥१॥ हंसांसाहत-पद्मरेणु-कपिश-क्षीरार्णवाम्भोभृतैः, कुम्भैरप्सरसां पयोधर-भर-प्रस्पद्धिभिः काञ्चनैः । येषां मन्दर-रत्नशैल-शिखरे जन्माभिषेकः कृतः, सर्वैः सर्व सुरासुरेश्वरगणैस्तेषां नतोऽहं क्रमान् ॥२॥ अर्हद्वक्त्र-प्रसूत गणधरः रचितं द्वादशाङ्गं विशाल, चित्रं बह्वर्थ-युक्तं मुनिगण-वृषभैर्धारितं बुद्धिमद्भिः । मोक्षाग्र-द्वार भूत व्रत-चरण-फलं ज्ञेय-भाव-प्रदीपं, भक्त्या नित्य प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारम् ॥३॥ निष्पङ्क-व्योम-नील-द्युतिमलस-दृशं बालचन्द्राभ दंष्ट्र मत्तं घण्टारवेण प्रसृत-मदजलं पूरयन्तं समन्तात् । आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी, यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्वकार्येषु सिद्धिम् ॥४॥
(२) अन्वय (મૂલપાઠ સંસ્કૃતમાં છે, તેથી તેની છાયા આપેલી નથી; પરંતુ સમજવામાં સરળતા પડે તેથી અન્વયે આપેલો છે). * ॥था-१, २-मे 'शाईसविहीत'मा . Auथा-3, ४-'२५२'छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org