Book Title: Pranamya Pad Samadhanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229602/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीसूरचन्द्रोपाध्यायनिर्मितम् प्रणम्यपदसमाधानम् म० विनयसागर प्राचीन समय में उपाध्यायगण / गुरुजन व्याकरण का इस पद्धति से अध्ययन करवाते थे कि शिष्य / छात्र उस विषय का परिष्कृत विद्वान् बन जाए। प्रत्येक शब्द पर गहन मन्थन युक्त पठन-पाठन होता था । जिस शब्द या पद पर विचार करना हो उसको फक्किका कहते थे । इन फक्किकाओं के आधार पर छात्रगण भी शास्त्रार्थ कर अपने ज्ञान का संवर्द्धन किया करते थे । कुछ दशाब्दियों पूर्व फक्किकाओं के आधार पर प्रश्न-पत्र भी निर्मित हुआ करते थे, उक्त परम्परा आज शेष प्रायः हो गई है । उसी अध्यापन परम्परा का सूरचन्द्रोपाध्याय रचित यह प्रणम्यपदसमाधानम् है । उपाध्याय सूरचन्द्र खरतरगच्छाचार्य श्री जिनराजसूरि (द्वितीय) के राज्य में हुए । सूरचन्द्र स्वयं खरतरगच्छ की जिनभद्रसूरि की परम्परा में वाचक वीरकलश के शिष्य थे और इनके शिक्षागुरु थे - पाठक चारित्रोदय । वाचक शिवनिधान के शिष्य महिमासिंह से इन्होंने काव्य रचना का शिक्षण प्राप्त किया था । इनका समय १७वीं शताब्दी का उत्तरार्द्ध और १८वीं शताब्दी का प्रारम्भ है | सूरचन्द्र प्रौढ़ कवि थे और इनका स्थूलिभद्रगुणमाला काव्य भी प्राप्त होता है, जो कि मेरे द्वारा सम्पादित होकर सन् २००५ में शारदाबेन चिमनभाई एज्युकेशन रिसर्च सेन्टर, अहमदाबाद से प्रकाशित हो चुका है । कवि के विशिष्ट परिचय के लिए यह ग्रन्थ द्रष्टव्य है : प्रणम्यपदसमाधानम् में प्रणम्य परमात्मानम् इस शब्द पर गहनता से विचार किया गया है । प्रणम्य परमात्मानम् पद्य कलिकालसर्वज्ञ श्री हेमचन्द्रसूरिजी रचित सिद्धहेमशब्दानुशासन की लघुवृत्ति का मंगलाचरण भी है और सारस्वत व्याकरण का मंगलाचरण भी है। इसी लेख में 'प्रणम्य प्रक्रियां ऋजुं कुर्व:' इससे स्पष्ट होता है कि सूरचन्द्र ने सारस्वतप्रक्रिया के मंगलाचरण पर ही विचार किया है । Page #2 -------------------------------------------------------------------------- ________________ 70 अनुसन्धान ३३ पश्चिमी भारत में पाणिनीय व्याकरण का विशेष प्रचार नहीं था । गुजरात में श्री हेमचन्द्रसूरि रचित सिद्धहेमशब्दानुशासन का और राजस्थान में प्रायः करके व्याकरण के प्रारम्भिक अध्ययन के रूप में सारस्वत व्याकरण का पठन-पाठन होता था । इसीलिए सारस्वत व्याकरण के मंगलाचरण पर ही सूरचन्द्र ने विचार-विमर्श किया है/फक्किका लिखी है। प्रारम्भिक जिज्ञासुओं के लिए पठनीय होने के कारण ही प्रस्तुत की जा रही हैं । प्रान्त पुष्पिका में 'पण्डित सूरचन्द्रेण कृतं' और 'पं. चि. भाग्यसमुद्रवाचनार्थं अंकित किया है। इससे स्पष्ट है कि यह लेखक द्वारा जालौर में स्वलिखित एक पत्रात्मक प्रति है और श्री लोंकागच्छीय श्री कनकविजयजी के संग्रह में यह प्रति प्राप्त थी । मार्च ५२ में प्रवास काल में मैंने इसकी प्रतिलिपि की थी । अन्यत्र इसकी प्रति प्राप्त नहीं है । प्रणम्यपद समाधानम् प्रणम्य परमाधीशं, सूरचन्द्रेण साधुना । प्रणम्य परमात्मानमित्यस्यार्थोऽत्र चिन्त्यते ॥ ननु भो विद्वन् । पूर्वं शास्त्रस्यादौ शास्त्रकाराः मङ्गलार्थ कञ्चिन्मङ्गलवाचकं शब्दं प्रतिजानाति, इति सर्वशिष्टाचारः । अत्र ह्येतत्क्रममुत्क्रम्य श्रीमदाचार्यधुर्यैः, 'प्रणम्य' इति पदस्य शास्त्रस्यादौ वर्तमानत्वेपि 'प्र' इत्युपसर्गः पूर्व कथं प्रतिज्ञातः ? । उपसर्गो हि न मङ्गलार्थो लोके रूढः, "उपसर्ग उपद्रवः" इति निघण्टुवचनात् । वैयाकरणेतरसूरयो हि शास्त्रादौ अमङ्गलशब्दं विहाय मङ्गलशब्दमेव सर्वे निवेशयन्ति, तच्चात्र न दृश्यते तत्र को हेतुः ?, प्रोच्यते । नास्य नामकोषसम्बन्धिनी उपद्रवाभिधेयोपसर्गसंज्ञा, किन्तु 'उपसर्गाः क्रियायोगे' इति पारिभाषिकी प्रस्योपसर्गसंज्ञा । एवं चेत् लौकिकी पारिभाषिकी वा प्रस्योपसर्गसंज्ञा, एवं चेत् लौकिकी पारिभाषिकी वा प्रस्योपसर्गसंज्ञा श्रुतिकरुः सम्पनीपद्यते एव । नैवं, प्रस्य महामङ्गलरूपत्वादिदं शास्त्रादौ मङ्गलमित्येव विवक्षितम् । यत:- "प्रशब्दश्चाथशब्दश्च" इति पुराणविचक्षणा आचक्षते । Page #3 -------------------------------------------------------------------------- ________________ September-2005 71 ननु च शास्त्रान्तरेषु "ओंकारश्चाथशब्दश्च" इति पाठो दृश्यते, ततोऽयं पाठोप्ययुक्तः,नैवं प्रशब्दशब्दनेन, साक्षात् ओंकार एवोपात्तः, यत:ओंकारापरपर्यायो प्रणव-शब्दोस्ति, तस्य पदैकदेशे समुदायोपचारात् । यद्वा"अवयविनि वर्तमानाः शब्दाः अवयवेष्वपि वर्तन्ते" इति वचनात् भीमोभीमसेन इत्यादिन्यायाद्वा प्रणवैकदेशे प्रशब्दे प्रणवे समुदायोपचारात् प्रशब्देन प्रणवग्रहणं सिद्धम् । सिद्धे च तस्मिन् ओंकारस्यैव उपादानं अङ्गीकृतं, तदङ्गीकारे च "ओंकारश्चाथ शब्दश्च" इति पाठोऽपि आदृत इति । प्रशब्दश्चाथ शब्दश्चेति पाठस्य ओंकारश्चाथेति पाठेन एकार्थीभावात नायमयुक्तः पाठ इति । एवं चेत्तर्हि भवतु नाम प्रणवे माङ्गल्यं, प्रकृते किम् ?, उच्यते-प्रस्य प्रणवशब्दस्यादौ स्थितत्वात् प्रणवकृतं माङ्गल्यं प्रशब्देपि अस्तीति प्रशब्दो माङ्गलिक इति । एवं तर्हि भवतु । शास्त्रादौ मङ्गलार्थो यः 'प्र'उपन्यासः, परं 'प्रणम्य' इति पदं समस्तं असमस्तं वा ? किंप्रत्ययान्तं सिद्ध्यतीति प्रोच्यताम् ? प्रणमनं पूर्वं प्रणम्येति प्रथमातत्पुरुषेण समस्तं पदं, क्यप् प्रत्ययान्तं चेति । कथमत्र क्यप् ? अस्य तत्पुरुषेण समस्तत्वात् समासे क्यबिति क्यप् । एवं चेत् क्यप: कित्वात् लोपस्तु अनुदात्ततनां इति मलोपः क्रियताम् । मैवं वोचः-लोपस्त्विति त ग्रहणं व्यवस्थाविभाषार्थं, तेनाऽत्र न मलोपः, पक्षे 'प्रणत्य' इत्यपि भवति । णत्वं तु प्रादेश्च तथा तौ इत्यनेन सिद्धमेव । ननु 'प्रणम्य' इत्यत्र का विभक्तिः ? किं वचनं ? चेति निगद्यताम्, उच्यते- तत्र विभक्तिः प्रथमा । प्रथममिति कथमत्र विभक्तिप्रतीति: ?, उच्यतेप्रणम्य इति पृथक्पदत्वात् विभक्तिमन्तरेण च न पदत्वापत्ति: "विभक्त्यन्तं पदम्" इति वचनात् । एवं चेतर्हि त्यादीनामपि विभक्तिसंज्ञा अस्त्येव, तर्हि "त्याद्यन्तं उत स्याद्यन्तं" इति, तत्र आद्यं न सम्भवति साक्षात् एव तदन्तत्वाभावात् । स्याद्यन्तं चेत् तस्यापि प्रत्यक्षानुपलक्ष्यमाणत्वात् न सम्भवः । नैवम्- "कृत्तद्धितसमासाश्च" इति कृतां नामसंज्ञात्वात् स्यादिर्भवत्येव । एवं चेत्तत्र का विवक्षामाश्रित्य विभक्ति-उत्पत्तिर्विधीयते ?, उच्यते विभक्त्यर्थप्रधाननिर्देशमाश्रित्य, स च विभक्त्यर्थः प्रातिपदिकार्थः सन्मात्रलक्षणः Page #4 -------------------------------------------------------------------------- ________________ 72 अनुसन्धान ३३ सम्पन्न इति । प्रातिपदिकार्थे सन्मात्रे प्रथमैव विभक्तिः, एवं चेत् प्रथमाया द्विवचन बहुवचनं वा क्रियताम्, किमेकवचनेन ? सत्यं, सङ्ख्याविशेषाभावा सर्वा । किं तर्हि एकवचनमेव ? तस्य उत्सर्गत्वेन विधीयमानत्वात् । तथा चोक्तम् - "एकवचनमुत्सर्गत: करिष्यत" इति प्रथमाविभक्त्यैकवचनान्तत्वं सिद्धिमिति। एवं चेत्तर्हि विभक्तिः कथं न दृश्यते ? इत्युच्यते - क्त्वाद्यन्तं चेत्यव्ययसंज्ञत्वात् विभक्तेर्लुक् ।। ननु नहि साक्षात् क्त्वा दरीदृश्यमानोऽस्ति तत्कथं, अव्ययत्वम् ? सत्यं, क्त्वास्थाने जायमानः क्यबादेशः क्त्वावन्मन्तव्यः । स्थानस्थानिनोरभेदोपचारात् स्थानिवद्भावात् इत्यर्थः । ततः क्त्वाद्यन्तं चेत्यव्ययत्वेन "अव्ययाद् विभक्तेर्लुक्" इति लुक् । ननु अत्र यः क्त्वास्थानीयः क्यब् उच्यते स कर्तरि कर्मणि भावे वा प्रयुज्यते, प्रोच्यताम् । “अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" इति वचनात्, स्वार्थो भावः, ततोऽत्र भावे एव क्त्वाप्रत्ययः, कर्तृकर्मणोरनभिधानात् तत्र न भवति । एवं चेत्तर्हि भावस्य कर्मविहीनत्वात् ‘परमात्मानं' इत्यनेन सकर्मणा पदेन सह कथंकारं योगो विधीयते, भावे नित्यं कर्मणोऽविद्यमानत्वं -आकाशकुसुमवत् त्रिलोक्यां इति । नैवं- यत: सकर्मकाणां धातूनां पुरस्तात् भावविवक्षया उत्पादितः कृत्प्रत्ययः प्रत्ययस्वाभाव्यादेव कर्मत्वं न अपाकरोति । यदाहु:- "सकर्मकाणामुत्पन्न" इत्यादि । तेन नमेः सकर्मकाद्धातो वेपि विहितः, क्त्वा सकर्मैव भवतीति, 'परमात्मानं' इत्यत्र युक्तत्वम् । एवं चेत् क्यपः कृत्प्रत्ययत्वात् कर्मणि षष्ठी युज्यताम्, तथा च सति प्रणम्य परमात्मन इति पदेन भवितव्यम्, न द्वितीयान्तेन इति । कर्तृकर्मणोः "कृद्योगे षष्ठी" भवतीति वैयाकरणाः । नैवम् - "कर्तृकर्मणोः" अक्तदौ कृति षष्ठी" इति सूत्रे अक्तादौ इति निषेधसामर्थ्यात् क्तादिप्रत्यययोगे न कर्मणि षष्ठी, अक्तादिरित्यत्रादिशब्दः क्तसमानप्रत्ययसमुच्चयनार्थः, तथा च सति भावेपि विहितः क्त्वाप्रत्ययस्थानीयसकर्मैव भवतीति युक्तम् परमात्मानमिति कर्मवचनमिति । Page #5 -------------------------------------------------------------------------- ________________ September-2005 ननु अत्र क्त्वाप्रत्ययः कुत्र काले प्रयुज्येत ?, उच्यते-अव्यवहितपूर्वकालापेक्षया क्त्वाप्रत्यय: सिद्धः / यथा- प्रणम्य प्रक्रियां ऋजुं कुर्वः, इति। तत्र प्रणमनानन्तरमेव प्रक्रियार्जवकरणमित्यर्थप्रादुर्भावः स्यात्, तेन अव्यवहितपूर्वकालापेक्षिक्त्वाप्रत्ययोऽत्र / ननु चेत् यदि पूर्वकालापेक्ष एव क्त्वाप्रत्ययः प्रादुःष्यात्, तदा मुखं व्यादाय स्वपिति, अक्षिणी सम्मील्य हसतीत्यादौ पूर्वकालमन्तरेणापि क्त्वाप्रत्यय उपलभ्यते / मुखव्यादानाक्षिसम्मीलनक्रिययोः स्वापरसनक्रिययोश्चैककाले एव प्रत्यक्षेण कक्षीक्रियमाणत्वात् / नच मुखव्यादानानन्तरं स्वपनं, अक्षिसम्मीलनानन्तरं च हसनमित्यर्थाऽऽविर्भावोऽभिष्यात् / द्वयोः किययोः समानकाले एव दृश्यमानत्वेन आनन्तर्यक्रियानुपलब्धेरिति / नैवम् - इहापि पूर्वकालापेक्षाऽस्त्येव / कथं स्वापक्रियायामुखव्यादानादुत्तरकालीनत्वाद्भवति, मुखव्यादाने पूर्वकालताप्रवृत्तिरेवं हसनक्रियाया अपि अक्षिसम्मीलनात् उत्तरकालीनत्वात् स्यात्, अक्षिसम्मलीने पूर्वकालताप्रवृत्तिरिति सिद्धोऽत्र पूर्वकालापेक्षया क्त्वाप्रत्ययस्थानीयः क्यप् इति / इति प्रणम्यपदसमाधानम् लेशतः कृतं पं. सूरचन्द्रेण श्रीरस्तु लिखितं श्रीजावालपुरे पं. चि. भाग्यसमुद्रवाचनार्थमिति शुभं भवतु / किं तद्वर्णचतुष्टये नवनजवर्णैस्त्रिभिर्भूषणं,(?) आद्यैकेन महोदयेन विहगो मध्यद्वये प्राणदः / व्यस्ते गोत्रतुरङ्गचारिमखिलं प्रान्ते च सम्प्रेषणं, ये जानन्ति विचक्षणाः क्षितितले तेषामहं किङ्करः // [ कुवलयम् / शुभंभवतु लेखकवाचकयोः C/o. 13-A, मेन मालवीय नगर जयपुर-३०२०१७