Page #1
--------------------------------------------------------------------------
________________
ललितविस्तरागत वस्तुविचारः तत्कर्तुश्च समासतः परिचयः
भवनतिलकसूरीश्वरान्तेवासी भद्रङ्करसूरिः
वीतरागैः सर्वजैः सूत्रीयविधिना विधीयमानाश्चैत्यवन्दनादि क्रियाः, मिथ्यादर्शनमथनत्वेन सम्यग्दर्शनविशुद्धिजनकत्वेन प्ररू पिता: सन्ति।
चैत्यवन्दनसूत्रस्योपरि नानावृत्तयो विद्यन्ते तत्र सर्वाभ्यो वृत्तिभ्यः प्राचीनवृत्तेर्नाम 'ललितविस्तरे'ति प्रसिद्ध प्रवर्तते, यस्याश्च, रचयितारः सुगृहीतनामधेया: सुविहितशिरोमणयः समर्थशास्त्रकारा आचार्याभगवन्तः श्रीहरिभद्रसूरयो विजयन्ते । __ अस्या वृत्तेर्माहात्म्यं जनशासने निश्चितं विश्रुतमेवंविधमस्ति यत्, उपमितिभवप्रपञ्चाया: कर्तार आचार्या सिद्धर्षिगणयः कथयन्ति। 'अनागतं परिज्ञाय, चैत्यवन्दनसंश्रयामदर्श निर्मिता येन वृत्तिललितविस्तरा' इत्येनं विषयं समर्थयन्तः पू. पा. श्रीमनिचन्द्रसूरयो ये सिद्धराजजयसिंह महाराजस्य राज्यसंसदि समर्थपादित्वेन प्रथिताः पू. श्री वादिदेवसूरीणां गुरव आसन्, ते ललितविस्तरायामुपरि पञ्जिकानामक लघु टीका रचयन्तो मङगलाचरणे 'अखिल व्याख्यातचूडामणिः सुगतप्रणीतशास्त्राभ्यासा प्रचलितचेतनः सिद्धर्षिनामक: साधु पुङ्गवः यां-ललितविस्तरां बुद्धा प्रबुद्धः, उपमितिभवप्रपञ्चाकथाकृतिरूप स्वकृतौ यत्कर्तुःललितविस्तराकत्तुर्हरिभद्र सूरेगुरुतयाऽसौ नमस्यां चक्रे, तस्या वृत्तेविधृति का कः समर्थः ? तथाप्यात्मनः स्मृत्ययतिष्येऽहम्, इत्या ख्यातवन्तः।
चैत्यवन्दनमेकं तादृशमनुष्ठानमस्ति यद् पू.पा. श्रीमद्भगवद् गणधरेन्द्रः साधुसाध्वीभिनिरन्तरं क्रियमाणावश्यक कर्मणि निहितमस्ति । 'चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते, तस्मात्कर्मक्षयः सर्वः, ततः कल्याणमश्नुते'।।
अद्याप्यदं युगीना जैनशासने परः सहस्रा: परोलक्षाश्चजनाश्वत्यवन्दनक्रियां नियमत: कुर्वन्तो दृश्यन्ते तत एषाचैत्यवन्दनक्रिया जीवन्ती विद्यते तथापि भावित चित्तवता पुरुषेण कार्येति
यता भावितचित्तेन भवन्ती क्रिया सक्रियात्वेन शास्त्रण स्वीक्रियते, स एव शुद्धचत्यवन्दनं करोति यस्य चैत्यवन्दन सूत्रस्यार्थतात्पर्यमस्ति। ललितविस्तरानामकोग्रन्थो मात्रसिद्धर्षेरुपकारकोनास्ति, सादरमभ्यस्यतश्च, अभ्यासेन सत्यतत्वबोधकसर्वजीवस्य सिद्धर्षिवदुपकारा भवति । अतो ललित विस्तराग्रन्थे सातत्येनाभ्यासादरः श्रद्धालुभिः कर्तव्यः।
श्रीमन्तस्तीर्थकरा 'धर्मरयनायका धर्मरथस्य सारथयो धर्म साम्राज्यस्य सार्वभौमाः' इत्यादि तीर्थंकरमहत्त्वसम्बन्धि तत्वं, ललितविस्तरायाः विशिष्ट बोधं विनाऽन्यतोज्ञातुमशक्यमतो ललितविस्तरायाः सम्यग्ज्ञानतो विश्वोपकारिणः परमात्मनस्तीर्थकरान् प्रति भक्तिभावोल्लासोऽवश्यं जागत्यैव ।
अद्यास्माभिः स्वीकर्तव्यमेवयत् त्रिसन्ध्यं चैत्यवन्दनीय सूत्रः, चैत्यवन्दनादिक्रियाकर्तारो जैना लक्षाधिक संख्यायां विद्यन्ते परन्तु तदर्थरहस्येन सह, भावतस्तत्कर्तारः कतिपयेऽपि, क्वचित् सन्त्यपि सम्भाव्यते ।
तादृश परिस्थिते: परिवर्तन कृते एतस्य ललितविस्तराग्रन्थस्याध्ययनकारिणां संख्यावृद्धिः कर्तव्या, तदर्थ प्रयत्नोऽपि कर्तव्यः ।
जगतः सर्वशासनातिशायि जैन शासनं जयति यत् इदं शासनं सर्वथा व्यवस्थितं सर्वथा सर्वकल्याणकरं कर्ममहासत्ताया अधःस्थितानां जीवानां कर्मपरसत्तातो मोचकं च सर्वदुःखमात्रता - मोचकमस्ति। ___ श्रीमत्या ललितविस्तराया मूलरूप उद्दश्य एवमस्ति यत्, चैत्यवन्दनस्य चारुक्रियायां यानि चैत्यानि वन्दनीयानि भवन्ति तानि श्रीमतां भगवतामहतां बिम्बान्येव तेषां बिम्बानां चैत्यमितिनाम कथं कथ्यते ? तत्प्रत्युत्तरमेतदस्ति । तेभ्यश्चैत्यभ्य: कृतवन्दनादिः, प्रशस्तसमाधि विशिष्ट चित्तं सम्पादयत्येव श्रीमदर्हद्धिष्वेषु प्रशस्त समाधि विशिष्टचित्तोत्पादन सामर्थ्य भावार्हद्भयः सम्पद्यत् इति ।
वी.नि.सं. २५०३
१९१
Jain Education Intemational
Page #2
--------------------------------------------------------------------------
________________ 'पुरुषविश्वासे वचनविश्वास' इति न्यायानुसारेण ज्ञानज्योतिः पुञ्जसमश्वाचार्य हरिभद्रसूरेः परिचयं प्राप्य तत्कृत ग्रन्थस्य महत्ता ज्ञातव्येति। श्रीप्रभावकचरित्रानुसारेण समासतो हरिभद्रसूरेश्चरित्रमुल्लिख्यते / श्रीमान् हरिभद्रसूरिश्चित्रकूटनगरस्य राज्ञो जितारेः पुरोहित आसीत्, स्वयं प्रकाण्डपण्डितोऽत एव पाण्डित्य महत्त्वहेतुना स भगवान् 'येन कथितं मया ज्ञातं न स्यात्तदा तस्याहमन्तेवासी भविष्यामीति महाभीष्मप्रतिज्ञां कृतवान्। तस्मिन्नवसरे चित्रकूटनगरे जिनभटसूरिनामको जैनाचार्यों निवसतिस्म, तस्य सम्प्रदाय महत्तराबिरुदविराजिता 'याकिनी' त्यभिधा धारिणी साध्वी मुख्या साध्वी विराजतेस्म / एकदा हरिभद्रपण्डितपुङगवेन सरस्वतीमूर्ति स्वाध्याय निरत महत्तरायाकिनी साध्वीवदनकमलत उच्चार्यमाणा 'चक्कि दुर्ग हरिपणगं' इत्यादि गाथा, श्रवणविषयीकृता, ततः स तस्या गाथाया अर्थो नज्ञातोऽतः साध्वीसकाशे समागत्य, तदर्थज्ञापनकृते साध्वी विज्ञप्ता, शास्त्राज्ञाधीनया साध्व्या, अस्मद्गुरोजिनभट सरे: पुरोगमनाय तस्मै कथितम् तदनन्तरं श्रीहरिभद्रपण्डित आचार्य जिनभटसूरेः पार्श्व गत्वा तस्या गाथाया अर्थ सादरं पप्रच्छ। जैनी दीक्षां गृहीत्वा विधिपूर्वकं जैनागमं यः पठति तस्यैव सूत्रार्था ज्ञाप्यन्ते नान्यस्येति / श्रीमता तेनाचार्येण प्रत्युत्तरितम् प्रतिज्ञापालनदक्षेण योग्य पुरुषशिरोमणिना तेन हरिभद्र पण्डितशिरोमणिना जैनीदीक्षा कक्षीचक्रे। तत आचार्येण तस्मै तस्या महत्तरायाकिन्याः परिचयो दत्तः, हेतुनाऽनेन श्रीहरिभद्रपण्डितेन प्रकाशितं यत् 'अनय देवता स्वरूपिण्या धर्ममात्राऽहं प्रतिबुद्धोऽस्मीति / ततः कतिपयैदिनैः सर्वेषु जैनागमेषु परमप्रवीणः समजायत; श्रीगुरुणा परमयोग्याय श्रीहरिभद्रमुनीश्वराय पण्डितमूर्धन्यायाचार्यपदं प्रददे, दत्त्वा आचार्यपदं स्वीयपट्टधरश्चक्रेतराम् / श्री हरिभद्रसूरेहंसपरमहंसनामानो द्वौ शिष्यावभवताम्, यौ संसारपक्षे भागिनेयावास्ताम् / तत्र तयोर्दीक्षा, शास्त्राध्ययनं च बौद्ध तर्क शास्त्राध्ययनाय बौद्धानां नगरे गमनं, तत्र तयोः परीक्षा, ततश्चलन, मार्गे बौद्धैः सह युवा हंसस्य मरणं, परमहंसस्य सूरपालस्य राज्ञः शरणे गमनं, बौद्धैः सहवादः, ततः प्रणम्य चित्रकूट गत्वा जातं व्यतिकरं कुर्वतः परमहंसस्यमरणं, हरिभद्रसूरिः क्रुद्धः, ततः सुरपालराजसभायां बौद्धः सह वादः, प्रतिज्ञाऽनुसारेण बौद्धानां तप्ततैलकुण्डे पतनं, जिनभटसूरि द्वारा श्रीहरिभद्रसूरेः कोपप्रशान्तिस्तथाऽपि मनोमन्दिरे शिष्य विरहवेदना न शाम्यति। . अम्बिकादेवी, समागत्य सूरि सान्त्वयति, कथयामास च शिष्यसन्ततियोग्यःपुण्य प्राग्भारो युष्माकं नास्ति, तस्माद्ग्रन्थ सन्ततिरेव युष्माकं भाग्येऽस्ति, ततो ग्रन्थ सार्थ निर्माणमेव भगवान् भवान् करोतु इति देव्यावचः सूरिणा जगृहे। अथ सूरिः चतुश्चत्वारिंशदधिक चतुःशतोत्तर सहस्र संख्यकानि समरादित्य चरित्रादिगम्भीर ग्रन्थ प्रकरणानि रचयांचकार। शिष्य विरह सूचक विरह शब्देनान्तेऽङिकतानि कृतानि च एतं ग्रन्थ राशि लेखयित्वा तत्प्रचाराय रिणा 'कार्णसिको' गृहस्थो धूर्ताख्यान द्वारा उपदिश्य जैनःकृतः सूरिवचोऽनुसारेण तेन व्यापारेण लब्ध द्रव्य द्वारा सूरेन्थान् लेखयित्वा सर्वत्र ग्रन्थाः प्रसारिताश्चतुर शीतिदेवकुलिका मण्डितः एको महाजिनालयो निर्मापितो, हरिभद्रसूरिणा महानिशीथ सूत्रस्योद्वारो विहितः / ... अनेक ग्रन्थ प्रणेता, वादिविजेता, प्रावनिक पुरन्दरः, नैमितिकपुङ्गवः, योगिवरेण्योयुगप्रधान: श्री हरिभद्र सूरीश्वरः सततं जिनशासने विजयताम् / जैसे तुम्बे का पात्र मुनिराज के हाथ में सुपात्र बन जाता है, संगीतज्ञ के द्वारा विशुद्ध बाँस से जुड़ कर मधुर संगीत का साधन बन जाता है, डोरियों से बन्धकर समुद्र तथा नदी को पार करने का निमित्त बन जाता है और मदिरा-मांसार्थी के हाथ पड़कर रुधिर-मांस का भाजन बन जाता है। वैसे ही कोई भी मनुष्य सज्जन या दर्जन की संगति में पड़कर गण या अवगुण का पात्र बन जाता है / -राजेन्द्र सूरि 112 राजेन्द्र-ज्योति melinerary