Book Title: Harmann Jacobi no Patra Author(s): Harmann Jacobi Publisher: ZZ_Anusandhan Catalog link: https://jainqq.org/explore/229449/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ २० हर्मन जेकोबीनो पत्र प्रो. हरमन जेकोबी श्री श्री श्री १०५ श्रीमुनिनेमिविजयानन्दसागरावाचार्यशिरोमणी प्रति बोषानगरवास्तव्यस्य याकोबिनाम्नः संस्कृताध्यापकस्य धर्मलाभपुरःसरं विज्ञप्तिरियम् । श्रीमद्भ्यां परिहार्यमीमांसाख्यपत्रे मांसमत्स्यभक्षणनिषेधो भूयिष्ठजैनागमसम्मतोऽखिलजैनमुनिसदाचाराङ्गीकृतश्चेति यद् बहुसूत्रप्रपञ्चेन निरणायि तत्र सर्वेषामैकमत्यमेव । अस्माभिस्तु यथेदानीन्तनानां जैनानां मांसभक्षणं निषिद्धं, न तदा ( था ) सर्वदाऽऽसीदिति प्रत्यपादि । तथा हि- अरिष्टनेमिविवाहावसरे तच्छ्वशुरेणोग्रसेननाम्ना महाराजेन विवाहोत्सवोचितान्नसम्पादनार्थं प्रभूता मृगाः पञ्जरबद्धा अस्थापिषतेत्युत्तराध्ययन सूत्रस्थद्वादशाध्ययने श्रूयते । उग्रसेनादीनां त्वार्हतत्वं तीर्थकरसम्बन्धादनुमीयते । एवं च तेषां मांसभक्षणं न निषिद्धमासीदिति प्रतिभाति । अनुसन्धान- ४१ ननु गृहस्था एव ते, न च गृहस्थाचारनिमित्तको विवादो, भिक्षूणामाचारस्याऽऽचाराङ्गेऽधिकृतत्वादिति चेत् सत्यम् । किं तर्हि ? जैनमुनिसमाचारस्याऽपि न सर्वदैकभावाश्रयत्वमासीदिति पूर्वमेवाऽस्माभिरुक्तम् । अद्यतनानां हि जैनमुनीनां स्थविरकल्पनियमः । पूर्वं तु जिनकल्पः प्रववृते । दृष्टान्तत्वेन मया जिनकल्प उदाहृतः, न तु आचाराङ्गसूत्रे जिनकल्पः प्रस्तुत इति विवक्षया । एवं समाचारस्याऽन्यथाभावमापद्यमानत्वदर्शनात् कदाचित् कस्मिंश्चित् पूर्वसमये मांसभक्षणमपि नाऽत्यन्तं निषिद्धमासीदित्यविरुद्धा कल्पना । एतेन न्यायेनाऽऽचाराङ्गसूत्रस्थितसूत्रस्याऽर्थोऽनुसन्धातव्यः । किञ्च, मांस-मत्स्यशब्दयोः पिशित- मीनातिरिक्तपदार्थे न वाचकत्वम् । यत्तु 'मत्स्या चक्राङ्गी शकुलादिनी 'ति श्रीहेमचन्द्रविरचितकोशे मत्स्याशब्दस्य वनस्पतिविशेषे रूढत्वदर्शनात् पूर्वोक्तसूत्रस्थमत्स्यशब्दोऽपि वनस्पतिविशेषार्थं गमयतीत्युच्यते, तदसमीचीनमेव । स्त्रीत्वेनोद्दिष्टस्य मत्स्याशब्दस्य वनस्पतिविशेषार्थाभिधायित्वात् पूर्वोक्तसूत्रस्थितस्य मच्छेणेतिशब्दस्य पुंस्त्वस्याऽ सन्दिग्धत्वात् । Page #2 -------------------------------------------------------------------------- ________________ October-2007 21 यदि च मत्स्यशब्दस्य मुख्यार्थव्यतिरेकेणाऽर्थान्तराभिधायित्वं स्यात् तदा तस्य शब्दार्थान्तरस्य बाधकमेव मांसशब्दस्य तेन सह सामानाधिकरण्यं स्यात् / 'अर्थः प्रकरणं लिङ्गं शब्दस्याऽन्यस्य सन्निधि'रिति शब्दार्थस्याऽनवच्छेदे सन्निधेरेव विशेषस्मृतिहेतुत्वस्मरणात् / इत्थं मांसशब्दसन्निधेर्मत्स्यशब्दस्याऽत्यन्तविजातीयवनस्पतिविशेषार्थाभिधा बाध्यते मीनपर्यायत्वं च सिध्यति / रूढ्यभावेऽपि मत्स्यशब्दो लक्षणयाऽर्थान्तरं नीयत इति चेत् - न, शक्यसम्बन्धाभावात् प्रयोजनाभावाच्च ! न हि मीनार्थ-फलविशेषार्थयोः कश्चित् सम्बन्धः प्रतीयते / न च किञ्चित् प्रयोजनमुपलभ्यते येन वनस्पतिविशेषार्थो मीनपदार्थसङ्केतितमत्स्यशब्देनोच्यतेति / ___यच्च - भुजिरत्र बाह्यपरिभोगार्थे, नाऽभ्यवहारार्थे वर्तत - इत्युच्यते, तदप्यसत्; प्रकरणवशाद् भुजिधातोरभ्यवहारार्थस्याऽऽवश्यकत्वात् / भोजनपानविधिनिषेधौ हि आचाराङ्गसूत्रस्य दशमोद्देशके प्रस्तुतौ न तु चिकित्सादि। अन्यच्च, मत्स्यशब्देन सह सम्प्रयुक्तस्य भोजनशब्दस्याऽभ्यवहारवाचकत्वाभ्युपगमे तस्यैव भोजनशब्दस्य मांसशब्देन सह सम्प्रयुक्तस्य स एवाऽर्थोऽवश्यमभ्युपेतव्यः / न हि पद्मावती काममञ्जरी वा वृणुष्वेति वाक्ये पद्मावतीकर्मकवरणक्रिया-काममञ्जरीकर्मकवरणक्रिययोरेकपदेनाऽभिहितयोः स्वीकुरुष्वेत्यवगुण्ठयेति भिन्नार्थत्वमुपपद्यते / श्लेषेण तत् स्यादिति चेत् - न, श्लिष्टपदप्रयोगस्य काव्यविषये बाहुल्येन दर्शनात् न तु जिनागमे / अपि च, मांसभोजनस्य बाह्यपरिभोगतया कल्पने श्रीमन्तौ प्रष्टव्यौबाह्यपरिभोगे मांसस्य परिव्यापादितपिशितभक्षण इव प्रयोक्तुर्जीवहिंसा भवति वा नवेति ? अस्ति चेत्, प्रयोक्तुः कर्मबन्धप्रसङ्गात् सूत्रस्थितविधेर्दोषत्वं दुष्परिहरणीयम् / अथ नाऽस्ति, आन्तरप्रयोगेऽपि सा न भवतीति दिक् / एवं सति मत्स्य-मांस- भोजनपदानां fish meat eat इत्याङ्ग्लदेशीयपदैरस्मन्मतेऽवश्यमेवाऽनुवादः कर्तव्यः ! यदि चाऽस्मदज्ञातयुक्त्या प्रस्तुतमागधीयपदानामर्थान्तरकल्पना शक्यक्रिया तदा तयैव सैव तत्प्रतिबिम्बभूतानामाङ्ग्लदेशीयपदानामप्यध्येतृभिः क्रियतामिति / __ यदि चाऽऽचाराङ्गसूत्रानुवादस्य द्वितीयावृत्तिः प्रकाश्यते तदा श्रीमद्भ्यां दर्शितः सूत्रार्थष्टिप्पन्यामुदाहारिष्यते इति प्रागेवाऽस्माभिः प्रतिज्ञातमिति विज्ञप्तिः / /