Book Title: Anuman Matruka Savchuri Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan Catalog link: https://jainqq.org/explore/229579/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ सं. मुनि कल्याणकीर्तिविजय आ प्रति मारा पू. गुरुभगवंतना अंगत संग्रहनी छे । प्रायः सत्तरमा सैकानी आ प्रति पंचपाठी छे । प्रतिमां क्यांय कर्ताना नामनो उल्लेख नथी परन्तु रचनाशैली जोतां कोई जैनमुनिए रचेली होय एवं लागे छे । प्रतिना लेखक श्री पूज्य श्रीसूरसुन्दरसूरिना शिष्य पं. समयमाणिक्य गणिना शिष्य छे अने तेणे श्रीसुन्दरतीर्थ गणि माटे आ प्रति लखी छे एवं तेमांना उल्लेखथी स्पष्ट जणाय छे। प्रतिनी किनारी फाटी गयेल छे पण अक्षरो सुवाच्य छे अने शुद्धि सारी छे । अनुमानमातृका नामक आ प्रकरणमां नैयायिक दर्शनना मते अनुमान खंडनुं प्रारंभिक अभ्यासी माटे मार्गदर्शन करेल छे । प्रकरणना कुल १३ श्लोको छे अने तेनी नानकडी अवचूरि पण आपेल छे, जे स्वोपज्ञ प्रतीत थाय छे. आज प्रतिनी बीजी पण एक नकल मळेल छे जे पण पंचपाठी अने प्रायः सत्तरमा सैकानी छे । लेखक पं. ज्ञानविमल गणि छे । अक्षरना मरोड अने अशुद्धिओ जोतां लेखके अभ्यासकालमा लखेल होय तेवुं लागे छे । संपादननो अनुभव बिलकुल नथी छतांय अभ्यासीओने उपयोगी थाय ते माटे पू. गुरुमहाराजनी प्रेरणाथी यथामति संपादित करी अत्रे रंजू करेल छे । ॥ अनुमानमातृका ॥ 11 2011 अनुमानमातृका सावचूरि अविनाभूताल्लिङ्गाद्विज्ञानं लिङ्गिनोऽनुमानं स्यात् । लिङ्गस्य लिङ्गिना सह या व्यातिः सोऽविनाभाव: ॥ योगदृगपेक्षया तत्पञ्चांशं ते प्रतिज्ञया (१) हेतुः (२) दृष्टान्त: (३) सोपनयो ( ४ ) निगमनम् (५) इति निगदिता विदुरैः ||२|| श्रितसाध्यधर्म्मपक्षाऽपरनामकधर्मिगीः प्रतिज्ञाख्यः । प्रथमो यथेह पृथ्वीधरे बृहद्भानुरिति हेतुः ॥ ३ ॥ हेतुत्वाभिव्यञ्जकविभक्तिका लिङ्गवाग् यथा घूमात् । तद्व्याप्ते रुपदर्शनभूष्टान्तोऽथ सा द्वेधा ॥४॥ १. पण्डितैः । २ पर्वते न (?) अग्निः । - Page #2 -------------------------------------------------------------------------- ________________ ३. ४. [86] हेतौ सति साध्यस्याऽवश्यम्भावित्वमन्वयव्याप्तिः । यद्वद् धूमो यत्राऽग्निस्तत्रेत्यत्र पाकगृहम् ॥ ५ ॥ व्यतिरेकव्याप्तिः स्याद्धेतौ साध्येऽसति ध्रुवमभावः । यद्यत्राग्निर्नो न तत्र धूमोऽपि कूपोऽत्र ॥ ६ ॥ धूमश्चात्रेत्युपसंहरणं हेतोश्च धम्मिणि तुरीयः । साध्यस्य तन्निगमनं स्यात्तस्मादग्निरत्रेति ॥ ७ ॥ हेत्वाभासाः पञ्चाऽसिद्धोऽनैकान्तिको विरुद्धश्च । कालात्य्याऽपदिष्टः प्रकरणसम इति मताश्च तुरैः ॥ ८ ॥ सोऽसिद्धश्चिद्रूपैरनिश्चिता पक्षवर्तिता यस्य । यद्वदनित्यः शब्दश्चक्षुर्दृश्यत्वतो घटवत् ॥९॥ स विरुद्धः साध्यविपर्ययेण सह यस्य जायते व्याप्ति : यद्वच्छब्दो नित्यः कृतकत्वादन्तरिक्षमिव ॥ १० ॥ सोऽनैकान्तिकनामा पक्ष सपक्षवदितो विपक्षं यः । व्योमवदव्ययशब्दं साधयत इव प्रमेयत्वम् ॥ ११ ॥ प्रत्यक्षादिनिराकृतसाध्यः कालात्ययापदिष्टाख्यः । जलवच्छीतलमनलं यथा पदार्थत्वतो वदतः ॥ १२ ॥ साध्यविपर्यययोः स्यात्तुल्यः प्रकरणसमो यथा नित्यः I शब्दः पक्षसपक्षाऽन्यतरत्वादन्तरिक्षमिव ॥ १३ ॥ " इत्यनुमानमातृका सुन्दरतीर्थगणिकृते लिखिता श्रीपूज्य श्रीसूरसुन्दर -- सूरिविनेयपं समयमाणिक्यगणिशिष्येण ॥ पण्डितैः । ( एताः टिप्पणयः प्रत्यन्तरे । ) नित्यत्वे साध्ये नित्यत्वतां सपक्षता । नित्यत्ववान् सपक्षः । अनित्यत्वे हि साध्ये अनित्यत्ववतां सपक्षता । अनित्यत्त्ववान् सपक्ष: । अनित्यत्वतां विपक्षता । अनित्यत्ववान् विपक्षः। नित्यत्ववतां विपक्षता । नित्यत्ववान् । विपक्ष: । ( प्रत्यन्तरे टि.) इत्यनुमानमातृका । पं. श्री ६ ज्ञानविमल || जालोरनगरे || श्रीकल्याणमस्तु ॥ ( इति प्रत्यन्तरे ) | Page #3 -------------------------------------------------------------------------- ________________ [87] अनुमानमातृका-अवचूर्णिः १. अविना० । विना साध्यभावेन भूतं विनाभूतं, न विनाभूतं अविनाभूतं साध्यसहचरमित्यर्थः । तथाविधात् लिङ्गात्साधनाल्लिगिनः साध्यस्य विज्ञानं सम्यगर्थनिर्णयात्मकविशिष्टज्ञानमनुमानं स्यादिति सम्बन्धः । अनु लिंगग्रहणसंबंधस्मरणयोः पश्चान्मीयते परिच्छिद्यते परोक्षोऽप्यर्थोऽनेनेत्यनुमानं । अन्यत्राप्युक्तम् पञ्चलक्षणाल्लिङ्गाद् गृहीतानियमस्मृतेः । परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥ १ ॥ अविनाभूतादित्युक्तमतोऽविनाभावमाह .. लिङ्गः । लिंगे सति लिङ्गी भवत्येव । लिङ्गिन्यसति च लिङ्गं न भवत्येवेत्येवंरूपा व्याप्तिरविनाभावः । सा च वक्ष्यतेऽग्रे ॥ १ ॥ २. यौ० । नैयायिकमतमाश्रित्य पञ्चावयवमनुमानमित्यर्थः । अनेन चाऽन्येषां न्यूनाऽधिकावयवमपि स्यादि सूच्यते । यदुक्तम्- . पञ्चावयवं यौगाः सृजन्ति मीमांसकाश्चतुरवयवम् । सांरव्यास्त्र्यवयवमार्हतबौद्धाश्च द्व्यवयवं तदिह ॥१ । पञ्चावयवं नैयायिकाः, उपनयान्तं मीमांसकाः, दृष्टान्तान्तं सांख्याः, हेत्वन्तं आर्हताः, व्यातिपूर्वकदृष्टान्तोपनयसहितं बौद्धाश्च कुर्वत्यनुमानमित्येतदार्यार्थः । तेऽशाः । सहार्थे तृतीया, इतिरेवमर्थे ॥ २ ॥ ३. श्रित० । साध्यधर्मवत: पक्षेत्यपरनाम्नो धम्मिणः पर्वतादेर्गीर्वचनं प्रतिज्ञा स्यादित्यर्थं : । अस्तीह पृथ्वीधरेऽग्निः । इतिः प्रकारार्थे । शेषोदाहरणेष्वपि ज्ञेयः ॥३॥ ४. हेतु० । हेतुत्वज्ञापकपञ्चम्यादिविभक्त्यन्तं लिङ्गवचनं हेतुरित्यर्थः । हेतुव्याप्तेरुपदर्शनं परस्मै प्रतिपादनं तस्य भूराश्रयः ॥४॥ ५-६. हेतौ० । यत्र धूमस्तत्राग्नि: अथवा यत्र यत्र धूमस्तत्र तत्राग्निरिति व्याप्सिः कार्या । अत्र व्याप्तौ पाकगृहं महानसं दृष्टान्तः । व्यति. यत्राग्निर्न स्यात्तत्र धूमोऽपि नेति व्याप्तिः कार्या । अत्र व्याप्तौ कूपो दृष्टान्तः । एवं व्याप्तिद्वैविध्याद दृष्टान्तोऽपि द्विविधः स्यात् । तत्र साध्यसाधनसद्भावकृतसाध्यसाधात्साधर्म्य Page #4 -------------------------------------------------------------------------- ________________ [8] दृष्टान्तः (1) / साध्यसाधनाऽभावजनितवैधाद्वैधर्म्यदृष्टान्तः / (2) इति / / 5 / 7. धूम० / धर्मिणि उपसंहरणं कोऽर्थ : ? दृष्टान्तर्मिणि विसृ(श्रु)तस्य साधनस्य साध्यमिण्युपनयनं तद्धर्मिण्युपसंहरणम् // 7 // 8. हे० / हेतुलक्षणरहिता हेतुवदाभासमानाः / नामकथनव्यतिक्रमः पाठानुकुल्यात् / // 8 // 9-10 सो० / अनिश्चिता संदेहगोचरीकृता विप्रतिपत्तिविषयीकृता वा // 9 // 10 // 11. सोऽने० / एकस्मिन्मते साध्यधर्मे नियत एकान्तिकस्तद्विपरीत; अनैकान्तिकः / व्यभिचारीत्यपि / नित्यः शब्दः प्रमेयत्वात् व्योमवदिति प्रयोगः // 11 // 12. प्रत्य० / आदिशब्दादनुमानागमादिग्रहः / प्रमाणाऽनुपहतपक्षोपन्या . साऽनंतरं हेतूपन्यासस्य समयः कालस्तदत्ययेऽतिक्रमे सति अपदिष्टः कालात्ययापदिष्टः कालातीत-समयातीत - बाधितविषया इत्यादिनामानि / अनलः शीतल: पदार्थत्वात् जलवदिति प्रयोगः प्रत्यक्षबाधोदाहरणम् / अनुमानबाधो यथापरमाणवोऽनित्या मूर्तत्वाद् घटवदित्यत्र ! परमाणवोऽनित्या अकार्यत्वादाकाशवदित्यनेन बाध्यते / नन्वस्यानुमानस्य को विशेषो येनेदं तद्बाधकमिति चेत् / यस्मादणुतरो नास्ति सक्रियो नित्य एव वा / नित्यत्वे सत्यजन्यो यः परमाणुः स लक्षितः / / 1 / / इत्यागमबद्धमूलत्वेन बलीयस्त्वम् / ततो बलवता दुर्बलं बाध्यत इति सार्वत्रिकन्यायादेतद् बाधकं स्यादिति // 12 // 13. साध्य० / पक्षः शब्दः सपक्षो व्योमादि, तयोरन्यतरत्वं एकतरत्वम् / पक्षत्वं सपक्षत्वं चेति यावत् / अयं चैक एव हेतुनित्यत्व इव / अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् / घटवदिति / अनित्यत्वेऽपि त्रिरूपतया वर्तमानः प्रकरणसमः स्यात् / तथा नित्यः शब्दोऽनित्य धर्मरहितत्वादित्यादयोऽपि ज्ञेयाः / सत्प्रतिपक्ष इत्यप्यभिधा एतस्य // 13 // 'इत्यनुमान मातृकावचूर्णिः संपूर्णा / लिखिता राजपुर महानगरे / 1. इत्यनुमानमातृकाऽवचूरिः // (इति प्रत्यन्तरे / )