________________
३.
४.
[86]
हेतौ सति साध्यस्याऽवश्यम्भावित्वमन्वयव्याप्तिः । यद्वद् धूमो यत्राऽग्निस्तत्रेत्यत्र पाकगृहम् ॥ ५ ॥ व्यतिरेकव्याप्तिः स्याद्धेतौ साध्येऽसति ध्रुवमभावः । यद्यत्राग्निर्नो न तत्र धूमोऽपि कूपोऽत्र ॥ ६ ॥ धूमश्चात्रेत्युपसंहरणं हेतोश्च धम्मिणि तुरीयः । साध्यस्य तन्निगमनं स्यात्तस्मादग्निरत्रेति ॥ ७ ॥ हेत्वाभासाः पञ्चाऽसिद्धोऽनैकान्तिको विरुद्धश्च । कालात्य्याऽपदिष्टः प्रकरणसम इति मताश्च तुरैः ॥ ८ ॥ सोऽसिद्धश्चिद्रूपैरनिश्चिता पक्षवर्तिता यस्य । यद्वदनित्यः शब्दश्चक्षुर्दृश्यत्वतो घटवत् ॥९॥
स विरुद्धः साध्यविपर्ययेण सह यस्य जायते व्याप्ति : यद्वच्छब्दो नित्यः कृतकत्वादन्तरिक्षमिव ॥ १० ॥ सोऽनैकान्तिकनामा पक्ष सपक्षवदितो विपक्षं यः । व्योमवदव्ययशब्दं साधयत इव प्रमेयत्वम् ॥ ११ ॥ प्रत्यक्षादिनिराकृतसाध्यः कालात्ययापदिष्टाख्यः । जलवच्छीतलमनलं यथा पदार्थत्वतो वदतः ॥ १२ ॥
साध्यविपर्यययोः स्यात्तुल्यः प्रकरणसमो यथा नित्यः I शब्दः पक्षसपक्षाऽन्यतरत्वादन्तरिक्षमिव ॥ १३ ॥
" इत्यनुमानमातृका सुन्दरतीर्थगणिकृते लिखिता श्रीपूज्य श्रीसूरसुन्दर -- सूरिविनेयपं समयमाणिक्यगणिशिष्येण ॥
पण्डितैः । ( एताः टिप्पणयः प्रत्यन्तरे । )
नित्यत्वे साध्ये नित्यत्वतां सपक्षता । नित्यत्ववान् सपक्षः । अनित्यत्वे हि साध्ये अनित्यत्ववतां सपक्षता । अनित्यत्त्ववान् सपक्ष: । अनित्यत्वतां विपक्षता । अनित्यत्ववान् विपक्षः। नित्यत्ववतां विपक्षता । नित्यत्ववान् । विपक्ष: । ( प्रत्यन्तरे टि.) इत्यनुमानमातृका । पं. श्री ६ ज्ञानविमल || जालोरनगरे || श्रीकल्याणमस्तु ॥ ( इति प्रत्यन्तरे ) |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org