Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 503
________________ विशेषाव० कोव्वाचार्य वृत्ती +5+45 OF गौतमगणधर: 4 // 499 // // 499 // 4 4 'इति एवं तव संशय एतेषु, स चायुक्तः, वस्तुन एवमनवस्थानात्, कथमिति चेदुच्यते-'यतः' यस्माद् 'वस्तुधर्म:' वस्तुपर्यायः 'न युक्तः' न घटते, कथमित्याह-अयमेवैवं नैवायमिति चेत्येवं, किमिति चेदुच्यते-सर्वासर्वात्मकत्वाद्वस्तुनः, स्वपरपर्यायद्वारेण, वस्तुवि| शेषश्च शब्दस्तस्मान्न तद्धर्मावधारणं युक्तं, स्पष्टयन्नाह-सव्वं चिय' इत्यादि / 'यतों यस्मात् 'नियतं निश्चितं सर्वमेव वस्तु सर्वात्मकं, कयाऽपेक्षयेत्यत आह-वपरपर्यायापेक्षया, सामान्यायेक्षयेत्यर्थः, तथा सर्व वस्तु असर्वषयमपि, विशेषविवक्षया, स्वप र्यायाऽपेक्षयेत्यर्थः, एवं विविक्तरूपं वस्तु, अनेकान्तव्यवस्थानादिति गाथार्थः॥२०७९-८१।। निगमयन्नाह-'सामन्ने त्यादि // तेन पदार्थों गर्मार्थो युक्तः, किंविशिष्टः ? इत्यत 'आह-विश्वरूपः नानाकारः, खपरपर्यायापेक्षयेत्यर्थ इति गाथार्थः / / 2082 / / तदेव| मपनीताशेषाशङ्क इन्द्रभूतिर्विस्मयमगमत्-अहो भगवान् सर्वज्ञ इति, दुरुक्तं प्राक् चिन्तितं भाषितं चासीत्, करोति च ममायमधुना नेत्रयोः शरच्छशीवोत्सवमिति निर्मिनग्रन्थिरवोचत्-भगवन् / यद्यहं योग्यः, प्रव्रज्यायास्त्वयेक्षितः / मह्यं प्रदीयतामेषा, ततः का कालयापना? // 1 // 'छिन्नम्मी'त्यादि पुन्बद्धं कण्ठ्यम् / 'स' गौतमखामी 'प्रवजितः' पापा ब्रजितःप्रव्रजितो-दीक्षां प्रतिपन्ना, किंविशिष्टः 1 इत्याह-श्रमणः 'नासंयतः प्रव्रजतीति वचनात्, किमेकाकी', नेत्याह-पञ्चभिः शतैः सह परिवृतः खण्डिकानांछात्राणां, अनेन तेषामन्ताद् अन्तानुयायिनं वर्द्धमानमाहेति गाथार्यः // एकादशैतानि वादस्थानकानि भविष्यन्त्यत आह-'एवं'मित्यादि / अनेन जीवप्रसाधनेन कर्मादिष्वपि यत्तुल्यं तुल्ययोगक्षेमं तत् स्वधिया समायोज्यं, न तु साक्षादभिधास्यते. ग्रन्थगौरवमयात्, यः पुनर्यत्र कर्मादिद्वारे विशेषः संक्षेपतस्तं तु वक्ष्याम्येवेति गाथार्थः॥२०८३-८४ा 'जीवेत्ति दारं॥ पढमो गणधरो गओ॥१॥ 4 4 AGARANAS 4 4 x

Loading...

Page Navigation
1 ... 501 502 503 504