Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 219
________________ प्रस्तावना इदं सिद्धपञ्चाशिकाभिधानं प्रकरणरत्नं प्रकरणकारैः ऐदंयुगीनमन्दमतीनां हितहेतवे सिद्धप्राभृतात्समुद्धृत्य गाथानुबन्धेन निबद्धम्, तच्चाद्यगाथागतस्य-"सिरिसिद्धपाहुडाओ" इति पदस्यावलोकनेन, अस्यावसानगाथागतस्य-"लिहिअं" इति पदस्य–“लिखितमक्षरविन्यासीकृतं सिद्धप्राभृतादिति शेषः" इति व्याख्यालवावलोकनेन च प्रकटमेव । “देविंदसूरीहिं" इत्यनेन मूलपाठेन, संशोधनकाले एकीकृतानां पुस्तकादर्शानां मध्यादेकस्यैव पुस्तकस्य-"करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगच्चन्द्रसूरिचरणसरसीरूहचञ्चरीकैरिति" इत्यवचूरिगतपाठेन चास्य प्रणेतारः तपागच्छभट्टारकपुन्दरश्रीमद्देवेन्द्रसूरय एवेति सुप्रतितम् । एतेषां सत्तासमयोऽपीह निर्विरोधं विक्रमार्कीयत्रयोदशशताब्द्यां सुप्रसिद्ध एव । अस्यावचूरिकारकालमानं तु निर्णेतुं न शक्यते, क्वाप्येतस्य नामाद्यनुपलम्भात् । ___अस्यां सिद्धपञ्चाशिकायां सत्पदप्ररूपणादिभिर्नवभिारैः पञ्चदशसु क्षेत्रादिद्वारेषु अनन्तरसिद्धानां परम्परसिद्धानां च स्वरूपं विगतविकारैः प्रकरणकारैः सङ्केपेण प्रतिपादितमस्ति । तत्तु स्वयमेवावभोत्स्यते पण्डितप्रकाण्डैरिति नात्रास्माकं कथनावश्यकतेति । सवृत्तिकस्यास्य प्रकरणस्य संशोधनसमये पुस्तकमेकं पूज्यपादप्रवर्तकश्रीमत्कान्तिविजयसत्कम्, द्वे च प्रवर्तकशिष्यमुनिश्रीभक्तिविजयसत्के, द्वे तु पत्तनसङ्घसत्कचित्कोशीये, एकं पुनः पत्तनस्थसागरगच्छोपाश्रयसत्कचित्कोशीयम्, एतानि षट् पुस्तकानि सम्प्राप्तानि । ततः शोधनकर्मणि साहाय्यमुपलभमानः पुस्तकप्रेषणेनानुग्रहं वितन्वताममीषां मन्येऽहं महतीमुपकृतिम् । एतत्पुस्तकषट्काधारेण संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं प्रवचनविचारजैरिति प्रार्थयते प्रकल्पिताञ्जलिः प्रवर्तकपादपाथोजपराग: चतुरविजयो मुनिः ।।

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244