Book Title: Sabdabrahmollasa Of Udayprabha
Author(s): Vidyut Aklujkar
Publisher: Vidyut Aklujkar

Previous | Next

Page 10
________________ 238 THE ADYAR LIBRARY BULLETIN त्वं विश्वरूपस्त्वद्रूपं विश्वमित्यैक्यदृष्टिभिः । अद्वैताभ्यासतो लभ्यं सार्वश्यमिति' नाद्भुतम् ॥ ४१ ॥ जा[F 12]यमानमजं योगिन् निद्रालुं नित्यजागरम् । विश्वरूपमरूपं त्वामामनन्ति मनीषिणः ॥ ४२ ॥ विश्वं त्वन्मयमेवेदमिति ज्ञानवतां सताम् । सर्वत्र तीर्थं नो तीर्थमपि [B 12]तीर्थं विपर्यये ।। ४३ ।। अर्ह्यसे यत्र तत्रापि यत्र तत्रापि वन्द्यसे । चिन्त्यसे यत्र तत्रापि सर्वत्रापि त्वमीश्वर ।। ४४ ।। ज्ञानं दानं क्रतुर्दीक्षा क्षान्तिः शान्तिर्जपस्तपः । जीवत्यधिष्ठितं सर्वं त्वयेदं परमात्मना ।। ४५ ।। यदा त्वत्तो [F 13]न विश्वत्र विश्ववातरिहेतरत् । तदा कौतस्कुतं मिथ्यादर्शनं परमेश नः ।। ४६ ॥ त्वमेव पितरौ स्वामी गुरुः कारुणिकोऽसि वा । स्वं पुत्रं किंकरं शिष्यं दीनं वार्य प्रतीच्छ माम् ॥ ४७ ॥ sārvvajñāmiti MS. 2 Perhaps this is to be read as no 'ti°, i.e. with an avagraha in between. 8 tvatto NMK.

Loading...

Page Navigation
1 ... 8 9 10 11