Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan
View full book text
________________
डॉ. सलिला नायकः “अञ्जलिः" उत्कलप्रदेशस्य (उड़िसा) राजधान्यां भूवनेश्वरनगर्यां गौरीव्रते ११ प्रवृआरी दिनाङ्के जन्मग्रहणं कृतवती। पितुः श्री रमाकान्त नायकस्य मातुः सावित्री देव्याश्चाशीवदिः उच्च शिक्षा प्राप्ताऽपि सदासर्वदा विद्यालयगरूं श्रीश्री अम्बिकाचरणंस्मरति। स्व. गुरूप्रदत्तेन “अञ्जलिः" नाम्ना परिचयाभिलाषुका, स्वरचित संस्कृतग्रन्थे “अञ्जलिः" इति उल्लिखाते। सा स्नातक-स्नातकोत्तर श्रेण्याम् प्रथमसोपाने उत्तीर्णा। दिल्ली विश्वविद्यालयतः विशिष्टाचार्य (M.Phil) तथा विद्या वाचस्पति (Ph.D) उपाधिं लब्ध्वा अधुना उत्कल प्रदेशस्य गजाममण्डले ब्रह्मपुरनगरे “रामाधीन संस्कृत महाविद्यालये व्याकरण विषये अध्यापिका रूपेण नियुक्ता। तया रचितां प्रथमपुस्तकं (The variants of the root “to sleep” in the Mahābhārata) 8888 3Toca दिल्ली नगरस्य शक्तिनगरस्थ "परिमल प्रकाशन" द्वारा प्रकाशितम्। तया रचिते द्वे अन्ये पुस्तके (Concept of Rebirth, Sex-sublimation in Sanskrit literature) प्रकाशाय प्रस्तूयेते। तया विरचित-अनेके; शोधनिबन्धाश्चापि प्रकाशिताः। "उत्कलीय संस्कृत्यौ दुर्गापूजा", तथा “महाभारते नारी" इत्याख्यौ निबन्धौ सर्वभारतीय आकाशवाणी - ब्रह्मपुर (गजाम, उड़िशा) द्वारा प्रचारितौ प्रसारितौ
च।
तस्याः जीवनस्य परमलक्ष्यं विद्यार्जनम्। भगवदविश्वासी सा गुरूचरणेषु ध्यानं कृत्वा सर्वकार्यमारभते, सफलता प्राप्तवती च। अस्मिन् ग्रन्थे स्वरचित मङ्गलाचरणे “पराम्बापदे” इति शब्देन स्वगुरूं “अम्बिकाचरणं" स्मरति। स्वव्याख्यामपि “अम्बिका" इति शब्देन इष्टदेवी जगद्जननी जगदम्बां तथा गुरुवरमम्बिकाचरणं निर्दिशति।
ISBN : 81-85268-67-3

Page Navigation
1 ... 285 286 287 288