Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ श्रीपिण्ड॥१॥ कालिको नाम श्रुतस्कन्धः, तत्र च पञ्चममध्ययनं पिण्डैषणानामकं, दशवकालिकस्य च नियुक्तिश्चतुर्दशपूर्वविदा भद्रबाहुस्वामिना ॥ नियुक्तिः कृता, तत्र पिण्डैषणाभिधपञ्चमाध्ययननियुक्तिरतिप्रभूतग्रन्थत्वात्पृथक् शास्त्रान्तरमिव व्यवस्थापिता, तस्याश्च पिण्डनियुक्तिरिति नाम कृतं, पिण्डैषणानियुक्तिः पिण्डनियुक्तिरिति मध्यमपदलोपिसमासाश्रयणाद्, अत एव चादावत्र नमस्कारोऽपि न कृतो, दशवैकालिकनियुक्त्यन्तर्गतत्वेन तत्र नमस्कारेणैवात्र विघ्नोपशमसम्भवात्, शेषा तु नियुक्तिर्दशवकालिकनियुक्तिरिति स्थापिता ॥ अस्याश्च पिण्डनियुक्तेरादावियमधिकारसङ्गहगाथा पिंडे उग्गमउप्पायणेसणा [स]जोयणा पमाणं च । इंगाल धूम कारण अट्टविहा पिंडनिज्जुत्ती ॥ १ ॥ | व्याख्या-पिण्ड संघाते ' पिण्डनं पिण्डः-सङ्घातो बहूनामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इति| त एव बहवः पदार्था एकत्र समुदिताः पिण्डशब्देनोच्यन्ते, स च पिण्डो यद्यपि नामादिभेदादनेकपकारो वक्ष्यते तथापीह संयमादिरूपभावपिण्डोपकारको द्रव्यपिण्डो गृहीष्यते, सोऽपि च द्रव्यपिण्डो यद्यप्याहारशय्योपधिभेदात् त्रिप्रकारः, तथाऽप्यत्राहारशुद्धेः प्रक्रान्तत्वादाहाररूप एवाधिकरिष्यते, ततस्तस्मिन्नाहाररूपे पिण्डे विषयभूते प्रथमत उद्गमो वक्तव्यः, तत्र उद्गमः उत्पत्चिरित्यर्थः, उद्गमशब्देन च इह उद्गमगता दोषा अभिधीयन्ते, तथाविवक्षणात , ततोऽयं वाक्यार्थः-प्रथमत उद्गमगता आधाकर्मिकादयो दोषा वक्तव्याः, ततः 'उप्पायणत्ति उत्पादनमुत्पादना, धात्रीत्वादिभिः प्रकारैः पिण्डस्य सम्पादनमिति भावः, सा वक्तव्या, किमुक्तं भवति ?-उद्गमदोषाभिधानानन्तरमुत्पादनादोषा धात्रीत्वादयो वक्तव्याः, तत 'एसण 'त्ति एषणमेषणा सा वक्तव्या, एषणा विधा-तद्यथा-गवेषणेषणा ग्रहणे Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 366