Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 10
________________ प्रबन्धः । कुमारपाला पिताः । ततो नवीनपुरनिवेशाय भूमि विलोकयता वनराजेनाणहिलो नाम गोपः प्राप्तः, तेन यत्र शशकेन श्वा त्रासितस्त॥४॥ स्थानं दर्शितम् । ततस्तन्नाम्नाऽणहिलपुरं पत्तनं संकलवास्तुविद्याविचारपुरःसरप्राकारप्रतोलीपरिखाप्रासादविहारहर्म्यहस्तिशालातुरङ्गमशालाभाण्डागारकोष्ठागारायुधशालाराजसभाऽलंकारसभास्नानगृहभूमिगृहधर्मशालादानशालासत्रागारपानीयशालानाट्यगृहक्रीडनगृहशान्तिगहशल्यशालाचन्द्रशालादिभिर्विशालं स्थापितम । ततः पञ्चाशद्वर्षवयसो वनराजस्य राज्याभिषेकः श्रीपत्तने संम्वत् ८०२ वर्षे श्रीशीलगुणसूरिभिज॑नमन्त्र राज्यस्थापना कृता । तदा पुरा प्रतिपन्नभगिन्या तिलकश्चक्रे, तस्या महाप्रसादः । जाम्बाकः सर्वराजकार्यक्षमो महामात्यः समभूत् । श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पञ्चासरग्रामे श्रीपार्श्वनाथप्रतिमालङ्कृतं निजाराधकमूर्तियुतं प्रासादमचीकरत् । - गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । स्थापितं जैनमन्त्रैस्तु तद्वेषी नव नन्दति ॥१॥ इति लोके प्रसिद्धिरभूत् । ततः षष्टि ६० वर्ष वनराजराज्यम् १, पञ्चत्रिंशद्वर्ष ३५ तत्पुत्रयोगराजराज्यम् २, पञ्चविशतिवर्ष २५ क्षेमराजराज्यम् ३, एकोनत्रिंशद्वर्ष २९ भूयडराजराज्यम् ४, पञ्चविंशतिवर्ष २५ वैरसिंहराज्यम् ५, पञ्चदशवर्ष १५ रत्नादित्यराज्यम् ६, सप्तवर्ष ७ सामन्तसिंहराज्यम् ७, एवं चापोत्कटकुले सप्त राजानोऽभूवन् । एवं वर्षाणि १९६ । ततो दौहित्रसन्ताने चौलुक्यकुले राज्यं गतम् । कथं गतम् ? तथा चाह-कन्यकुब्जीयचौलुक्यश्रीभूयडराजस्य सुतः कर्णादित्यः, तत्पुत्रश्चन्द्रादित्यः, तत्सुतः सोमादित्यः, तत्पुत्रो भुवनादित्यः, तस्य राज-बीज-दण्डकनामानस्त्रयः पुत्राः । तेषु प्रथमो राजकुमारः ॥४॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 238