Book Title: Kahakosu
Author(s): Shreechandmuni
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 673
________________ ग्रंथकर्तुः प्रशस्तिः सर्वज्ञशासने रम्ये घोराघौघविनाशने । धर्मानेकगुणाधारे सूरस्थे सुरसंस्तुते ॥१॥ अणहिल्लपुरे रम्ये सज्जनः सज्जनोऽभवत् । प्राग्वाटवंशनिष्पन्नमुक्तारत्नशताग्रणीः ॥२॥ मूलराजनपेन्द्रस्य धर्मस्थानस्य गौष्ठिकः । धर्मसारधराधारः कूर्मराजसमः पुरा ॥३॥ कृष्णनामा सुतस्तस्य गुणरत्नमहोदधिः । बभूव धर्मकर्मण्ये जनानां मौलिमण्डनम् ॥४॥ निन्यान्वय महामुक्तामालायां नायकोपमः । चतुर्विधस्य संघस्य दानपीयूषवारिदः ॥५॥ स्वसैका जयती तस्य कृष्णस्येव सुभद्रिका। राणूनामा प्रिया साध्वी हिमांशोरिव चन्द्रिका ॥६॥ तस्यां पुत्रत्रयं जातं विश्वसर्वस्वभूषणम् । बोजासाहणपालारव्यौ साढदेवस्तृतीयकः ।।७।। चतस्त्रश्च सुतास्तस्या धर्मकर्मैककोविदाः । सिरी (श्री ?) श्रृंगारदेवी च सुन्दूः सोखूरिति क्रमात् ॥८॥ कलिकालमहाव्यालविषव्यालुप्तचेतसः । जैनधर्मस्य सम्पन्ना जीवातुस्तत्र सुन्दका ॥९॥ महाश्रावककृष्णस्य सन्तानेन शुभात्मना । व्याख्यापितः कथाकोशः स्वकर्मक्षयहेतवे ॥१० कुन्देन्दुनिर्मले कुन्दकुन्दाचार्यान्वयेऽभवत् । धर्मो मूर्तः स्वयं वा श्रीकीर्तिनामा मुनीश्वरः ॥११॥ तस्मासमोपहः श्रीमान्सप्रभावोऽतिनिर्मलः। श्रुतकीर्तिः समुत्पन्नो रत्नं रत्नाकरादिव ॥१२॥ ५. १ निद्रान्वय । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 671 672 673 674 675