Book Title: Jain Tattvagyanam
Author(s): Vijaydharmsuri
Publisher: Premchand Ratnaji
View full book text
________________
भवति-मुक्तिं प्राप्य न पुनरधोऽवतारः सम्भवति । आह च महर्षिरुमास्वातिर्वाचकमुख्यस्तत्त्वार्थसूत्रपर्यन्ते- "दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे न रोहति भवाङ्करः” ॥ परमात्मानो हि परमवीतरागाः, न तस्मादेषां संसारेण किमपि प्रयोजनं येन पुनः संसारमाविशेयुरिति जैनसिद्धान्तः । इदमपि जैनसिद्धान्ताभिमतम्-कर्मक्षयस्य करणेन भवतीश्वरः, न पुनर्नित्यमुक्तः कश्चिदेकः सनातन ईश्वरः। उक्तं हि सम्मतिप्रकरणवृत्तौ न्यायचक्रवर्तिना श्रीमदभयदेवसूरिणा- "तन्न रागादिक्लेशविगमः स्वभावत एवेश्वरस्येति युक्तम्” । उपायबलेन ह्युपेयसिद्धिः, उपायव्यतिरेकेणोपेयसिद्धेरसम्भवात् ; तथाचेश्वरत्वमपि यदि नोपायसिद्धं तर्हि सर्वेषामपि तत्सम्भवः स्याद् न वा कस्यापि । उक्तं हि सौगतेन धर्मकीर्तिनाऽपि
"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः” ॥ अत एव जैना ईश्वरं प्रतिपद्यमानाः सेवमाना उपासीना ध्यानगोचरीकुर्वाणा अपि नाचक्षते जगत्कर्तारम् । तेषां ह्ययमेवाऽभिप्रायः-परमवीतरागस्येश्वरस्य न किञ्चित् जगत्सृष्टौ प्रयोजनं सम्भ वति; परमकृतार्थत्वात् । न च निष्प्रयोजनस्य जगत्सृष्टिचेष्टोपपत्तिमती । ईश्वरस्यानादितया स्वीकर्तृणां जगतोऽप्यनादित्वेन स्वीकारे न किञ्चिद् दूषणापातः । प्रतिक्षणं विपरिणममानमपि जगद् द्रव्यशक्तितः सनातनमेव; समूलनाशायोगात् । मुक्तेरनादित्वेन च मुक्ति१ मुद्रितपुस्तक १२१ पृष्ठे ।

Page Navigation
1 ... 17 18 19 20 21 22