Book Title: Jain Dharmma Nam Smaranni Avdharna
Author(s): Manharbala Kantilal Shah
Publisher: Antararashtriya Jain Vidya Adhyayan Kendra

View full book text
Previous | Next

Page 148
________________ ॥ श्री अरनाथ ॥१८॥ १. जयो भविष्यति यशोऽपि भविष्यति । २. वरो मध्यगुणो भविष्यति । ३. कन्याऽसावुद्वेगकरी भवेत् । ४. पुररोधः स्तोकदिनैर्यास्यति । ५. बद्धो महाकष्टेन छुटिष्यति । ६. धारणागति : सुन्दरा उद्वेगश्च । ॥ श्री मल्लिनाथ ॥ १९ ॥ १. मन्त्रौषधिभ्यो महागुणो भावी । २. गतं वस्तु सविलंम्बं स्तोकं चटिष्यति । ३. आगन्तुकः कष्टे पतितः सविलम्बमागमिष्यति । ४. सन्ताने पुत्रो भावी । ५. अर्थचिन्ता, सहजैवार्थप्राप्तिः । ६. राज्यं क्वापि नास्ति, प्राणा रक्षणीया: । ॥ श्री मुनिसुव्रतस्वामि ||२०|| १. राज्यं भव्यं परं जनभक्तिः न । २. मन्त्रविद्यौषधिभ्यो मध्यमो गुणो भविष्यति । ३. गतं गतमेव शेषं रक्षणीयम् । ४. आगन्तुकः शीघ्रं सलाभोऽस्ति । ५. संताने पुत्रो भवेन्न सुन्दर : 1 ६. अर्थचिन्ताऽस्ति परं न दृश्यते । ॥ श्री नमिनाथ ॥ २१ ॥ १. अर्थलाभो भविष्यति चिंता न ( कार्या) । २. राज्यं सविलम्बं सोपक्रमं भावि । ३. मन्त्रोषधिभ्योऽनर्थो भावी । ४. गतं शीघ्रं चटिष्यति । ५. आगन्तुको मार्गाद विलम्बितः । ६. संताने पुत्रो भविष्यति धनागम ।

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156